________________ शय्यषणा // 2-2-1 // वर्जयेत् साण्डप्राणादिकं समुद्दिष्टक्रीतादिदोषदुष्टं भिक्ष्वर्थकृतसंस्कारादिकं प्रतिश्रयम्। प्राक् साधूद्दिष्टमपि पश्चात् पुरुषान्तरार्पितं तु निर्दोषतया सेवेत। यदि मुन्युद्देशेन फलकादिकं वनस्पत्यादिकं वा स्थानात् स्थानान्तरं संहियते, तदा तत्प्रतिश्रयं परिहरेत्। न सेवेत मञ्च-मालादिस्थितं प्रतिश्रयम्। आगाढहेतुस्थितस्तु वर्जयेत्तत्र हस्तादिक्षालनमुच्चारादिव्युत्सर्गं च, पतना