________________ तदग्रहणरूपा प्रगृहीता। (7) यदन्ये द्विपदादयो नावकाङ्क्षन्ते तदुज्झितधर्मिकं भोजनम्, तदग्रहणरूपोज्झितधर्मिका। एवं पानैषणा अपि द्रष्टव्याः। तद्विशेषस्तु चतुर्थ्यां स्वच्छत्वादल्पलेपत्वम्, ततश्च संसृष्टाद्यभाव इति। गच्छान्तर्गतानां सप्तानामप्यनुज्ञातं ग्रहणम्। तन्निर्गतानामाद्ययोर्द्वयोरग्रहः, पञ्चस्वभिग्रहः। अन्यतरैषणाप्रतिपन्नाः सर्वेऽपि जिनाज्ञया समुत्थिताः, अतो न तेषां केषाञ्चिदपि प्रतिक्षेपः कार्यः, मदो वा।