________________ (.. A A पिण्डैषणाः (1) असंसृष्टो हस्तोऽसंसृष्टो मात्रश्च, एवंविधेनासंसृष्टेन हस्तेन मात्रेण वा दीयमानं प्रासुकमशनादिकं गृह्णीयात्। (2) संसृष्टो हस्तो मात्रश्च शेषं तथैव। (3) भाजनेषूपनिक्षिप्तपूर्वं हस्तमात्रान्यतरेण संसृष्टेनासंसृष्टेन वा प्रासुकं गृह्णीयात्। (4) पृथुकादिग्रहणरूपाऽल्पलेपा। (5) अवगृहीतमेव भोक्तुकामस्योपहृतमेव शरावादौ भोजनम्, तद्ग्रहणरूपाऽवगृहीता। (6) पिठरकादेरुद्धृत्य चटुकादिनोत्क्षिप्तं स्वार्थं प्रगृहीतं यद् भोजनम्,