________________ सज्ञादिपुरस्सरं पश्येत्। नाङ्गल्योद्दिश्य तर्जयित्वा स्पृष्ट्वा वा याचेत। न वन्दित्वा याचेत। नालाभे परुषं वदेत्। यदि दायको दादेरुत्क्षालनादिकं कृत्वा दद्यात्, तदा तं प्रतिषेधयेत्, न पुरःकर्मयुतहस्तमात्रादिना दीयमानं प्रतिगृह्णीयात्। एवमुदकार्दादिष्वपि ज्ञेयम्। तज्जातीयाहारसंसृष्टहस्तादिना दीयमानं प्रासुकैषणीयं प्रतिगृह्णीयात्। वर्जयेदग्निनिक्षिप्तमशनादिकम्। // 2-1-7 // परिहरेन् मालोपहृतं कोष्ठाद्याहृतं च,