________________ पतनादिप्रसक्तेः। न गृह्णीयान्मृत्तिकाद्यवलिप्तभाजनगतम्, उद्घाटने पश्चात्कर्मणि च षट्कायविराधनाप्रसक्तेः। अत्युष्णमाहारादिकं यदि वस्त्रादिना वीजनं कृत्वा दद्यात्तदा तन्न ग्राह्यम्। न वनस्पत्याद्युपरि निक्षिप्तमपि ग्राह्यम्। तन्दुलोदकादिकं पानकमप्यपरावर्तितवर्णादितयाऽशस्त्रपरिणतं ज्ञात्वा न ग्राह्यम्। // 2-1-8 // सास्थिकं सबीजं वाऽऽम्रादिपानकं न ग्राह्यम्, अप्रासुकत्वात्।