________________ विभावयेत्, मायाप्रसक्तेः। उत्सर्गतस्तु सर्वजनार्थनिसृष्टं न ग्राह्यमेव। अपवादतो गृह्णन्नपि नात्मार्थं प्रचुर स्निग्धं गाय॑मुपगच्छन् प्रतिगृह्णीयात्, अपि तु बहसममेव परिभाजयेत भुञ्जीत वा। पूर्वप्रविष्टश्रमणादिकं दृष्ट्वाऽनापातसंलोके प्रतीक्ष्य प्रतिषिद्धे दत्ते वा तस्मिन् निवृत्ते प्रविशेत्। // 2-1-6 // न गृहिकुलद्वारशाखामवलम्ब्य तिष्ठेत्। नाचमनस्थानादौ स्नानवर्च:स्थानसंलोके वा तिष्ठेत्। न गवाक्षादिकं