________________ न संस्निग्धपृथिव्याधुपयोगेन तत्प्रमार्जनादिकं कर्त्तव्यम्, अपि त्वचित्ततृणादिना। ऋजुमार्गस्थं बलीवर्दादिकं दृष्ट्वा तन्मार्ग परिहृत्य संयमेनान्यमार्गेण गन्तव्यम्। त्याज्यश्चावपातस्थाणुकण्टकादियुतो मार्गः। गृहिकुलद्वारभागं कण्टकशाखापिहितं दृष्ट्वा नाननुज्ञाप्याप्रत्युपेक्ष्याप्रमृज्योद्घाटन-प्रवेश-निष्क्रमाः कार्याः। न पूर्वप्रविष्टं श्रमणादिकं दृष्ट्वा तत्संलोके तिष्ठेत्, किन्त्वेकान्तेऽनापातसंलोके। न च सर्वश्रमणेभ्यो दत्तमात्मीयमात्रतया