________________ तिष्ठे दसावेकान्तेऽनापातेऽसंलोके / क्षुल्लकं सूतकादिनिरुद्धं ग्रामं विहाय बहिर्गामेष्वटितव्यम्। परिवर्ण्य ज्ञातिस्वजनपिण्डगाद्धर्यमितरेतरकुलेभ्यः सामुदानिका भिक्षा गवेष्या। // 2-1-5 // अग्रपिण्डोत्क्षेपादिकं दृष्ट्वा तल्लिप्सयाऽन्यश्रमणादिस्पर्धया भिक्षुर्न शीघ्रं गच्छेत्, मायास्पर्शप्रसक्तेः। वप्रादिपरिहारेणान्यर्जुमार्गेण गच्छेत्, अन्यथा पतनादिदोषानुषङ्गात्। मार्गान्तरविरहात्तेन गच्छता पतितेन मलादिलिप्तेन