________________ रजःसमुद्घाततिरश्चीनसम्पातेषु न निर्गन्तव्यम्। स्थविरकल्पस्थो निर्गच्छेत् कारणेन, न तु सर्वोपकरणमादाय। वर्जनीयानि क्षत्रियराजकुलानि। // 2-1-4 // परिहरेत् प्राणि-बीज-हरितादि-बहुलमार्गान् आकीर्णवृत्तियुतकुलानि च, यत्र गच्छतोऽसंयमः वाचनादिस्वाध्यायपञ्चकव्याघातश्च। न गोदोहने रन्धने वा क्रियमाणे प्रविशेद् भिक्षुः, अपि तु सम्पन्ने तत्कायें। असम्पन्ने