________________ अपि च सम्भाव्यते सङ्खड्यां मद्यपानं नष्टचित्तता ब्रह्मभङ्गश्चेति वर्जनीया सा। तथा तया सामुदानिकभिक्षागवेषणाऽऽलस्यम्, मायोदयश्चातस्तांत्यक्त्वा सामुदानिकभिक्षेतरेतरकुलेभ्य आनीय भोक्तव्या। अपरेऽपि पादाक्रान्तिविक्षोभ-अभिघात-जलावसेक - रजःपरिघर्षणादयश्च दोषास्तस्यां ज्ञेयाः। अतो न विचारणीयमपि तस्यां गमनम्। कल्प्याकल्प्यगोचरशङ्कागोचरं न ग्राह्यम्। सर्वोपकरणसहितो भिक्षुर्गृहिकुलेष्वन्यत्र वा गच्छेत्। वर्षा