________________ उग्रादिकुलेभ्योऽजुगुप्सितेभ्योऽशनादिकं प्रतिगृह्णीयात्। नार्धयोजनादुर्ध्वं भिक्षार्थं गच्छेत्। तदन्तरपि वर्जयेत् सङ्खडिम्, अनादरेण त्यजेत् सखडिदिशमपि तद्ग्रामादिकमपि। सम्भाव्यन्ते हि सङ्खड्यामध:कर्माद्यनेकदोषाः। // 2-1-3 // किञ्च सङ्खड्यामधिकप्रतिग्रहणेन वमनादिदोषा रोगोदयश्च। अतः कर्माश्रवनिमित्तं सङ्खडीति केवलिवचनम्।