________________ भूम्यादौ प्रविशेन्निष्क्रमेद्वा। नान्यतीर्थिकेभ्योऽशनादिकं दद्याद्दापयेता। वर्जयेदुद्दिष्टक्रीतोच्छिन्नकाच्छेद्यानिसृष्टाभ्याहृतदोषदुष्टमशनादिकम्। परिहरेन्नित्यपिण्डादिदानपराणि कुलानि। एवमेव भिक्षोर्वा भिक्षुण्या वा सामग्यं यत् सर्वाथैः समितः सहितः सन् सदा यतेत। // 2-1-2 // पर्वनिमित्तं श्रमणादिभ्यः पिठरकादूखाभ्यां परिविष्यतेऽपुरुषान्तरकृतं तन्न प्रतिगृह्णीयात्, इतरत्तु प्रतिगृह्णीयात्।