________________ पिण्डैषणा // 2-1-1 // भिक्षुर्वा भिक्षुणी वा गृहिकुलं भिक्षार्थ गत्वा प्राणादिसंसक्तं जानीयादशनादिकम्, तदा तदप्रासुकमनेषणीयमिति मत्वा सत्यपि लाभे न प्रतिगृह्णीयात्। अनाभोगगृहीतं तु शुद्धस्थण्डिले त्यजेत्, उन्मिश्रं च विशोधयेत्। यच्चापि भोक्तुं पातुं वा न शक्नुयात्, तदपि दग्धस्थण्डिलादौ परिष्ठापयेत्। नान्यतीर्थिकादिभिः सह भिक्षा-बहि