________________ साधिकषण्मासं वा यावन्न पीतवान्। षष्ठादितपोनिरतश्च बभूव। उद्गमादिदोषरहितं शुद्धाहारं गवेषितवान्। वर्जयाञ्चकार च ब्राह्मणादीनां श्वानादीनां च वृत्तिच्छेदम्। छद्मस्थोऽपि पराक्रममाणो भगवान्न सकृदपि कृतवान् प्रमादम्। एवं सुप्रणिहितमनोवाक्काय उपशान्तविष यकषायो भगवानत्रोक्तशस्त्रपरिज्ञादिसर्वविधिमनुष्ठितवान्, यत्रात्मशुद्धिरनिदानभावो ज्ञानचतुष्टयं च सहवर्तिनो बभूवुरिति।