________________ यथा- मानं चेह प्रमाणाङ्गुलेन / योजनस्यैकषष्टिभागा विधीयन्ते , तत्र क्रमेण समवृत्तत्वाच्चन्द्रविमानानामायामो विस्तारश्च षट्पञ्चाशद्भागाः, सूर्यविमानानामष्टचत्वारिंशद्भागाः, ग्रहविमानानां द्वे गव्यूते , कोशद्वयमिति हृदयम् , नक्षत्रविमानामेकं कोशम्, ताराविमानानामर्धकोशम् / उच्चत्वे सर्वेषामेभ्योऽर्धम् , यथा-चन्द्राणां विमानान्युच्चत्वेऽष्टाविंशतिः, सूर्याणां चतुर्विंशतिः, ग्रहाणां कोशम् , नक्षत्राणामर्धकोशम् , ताराणां कोशचतुर्थभागः / इदं ताराविमानेष्वायामविष्कम्भोच्चत्वमुत्कृष्टस्थितीनामवसेयम् / जघन्यस्थितीनां तारकाणामायामविष्कम्भाभ्यां पञ्चधनु शतानि , उच्चत्वेऽर्धतृतीयधनुःशतानि / यदुक्तं तत्वार्थभाष्ये-"उत्कृष्टायास्ताराया अर्धकोशम्, जघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्द्धमुच्चत्वे भवन्ति / '' ज्योतिष्काणां विमानेषु वर्णविभागः संग्रहणीवृत्तिवचनाद्यथा-''ताराः पञ्च वर्णा :, शेषाश्चत्वार उत्तप्तकनकवर्णा : सन्ति'' / / 96 / / अथ मनुष्यलोकबहिर्वर्तिनां ज्योतिष्काणां किञ्चित्स्वरूपमाह चित्तंतरलेसागा, चंदा सूरा अवडिआ बाहिं / अभिजिइजोए चंदा, सूरा पुण पुस्सजोएण ||17 / / चित्तं० / मनुष्यलोकादहिर्दिवसा रात्रयश्चावस्थिताः सन्ति, यतश्चित्रान्तर-लेश्याकाश्चन्द्रा : सूर्याश्च / सूर्याणामन्तरे चन्द्राश्चन्दाणामन्तरे सूर्या : , कोऽर्थ: ? यत्र स्थाने दिवसस्तत्र सर्वकालं दिवस एव , यत्र च रात्रिस्तत्र सर्वदा रात्रिरेव / तत्र यथा चन्द्रसूर्या अवस्थितास्तथा रात्रिदिवसा अप्यवस्थिता: / तत्रत्याश्चन्द्रा नात्यन्तं शीता : सूर्याश्च नात्यन्तमुषणरश्मयः / तथाभिजिन्नक्षत्रयोगे सर्वे चन्द्राः सर्वदा सूर्याः पुनः पुष्यनक्षत्रयोगे सन्ति / तत्रान्यानि सर्वाणि नक्षत्राणि सन्ति परं भोग्यत्वेनैते स्तः / एवं ग्रहनक्षत्रतारका अपि स्थिरा ज्ञेयाः / एषां विमानानां मानं चरज्योतिष्कादर्धम् , यथा चन्द्राणामष्टाविंशतिरेकषष्टिभागा आयामो विष्कम्भश्च , उच्चत्वे चतुर्दशभागाः | सूर्याणां चतुर्विंशतिरेकषष्टिभागा आयामो विष्कम्भश्च , उच्चत्वे द्वादश भागाः / ग्रहाणामेकं कोशमुच्चत्वेऽर्धम् / नक्षत्राणामर्द्धकोशमुच्चत्वे चतुर्थांश: / ताराणां कोशचतुर्थांश उच्चत्वेऽष्टमाशंः / स्थिराणां ज्योतिष्काणामायूंषि चराणां पञ्चानामिव ज्ञेयानि / किञ्च स्थिरचन्द्रसूर्याणां पंक्तिविषये बहूनि मतानि सन्ति तान्यत्र ग्रन्थगौरवभयान्न लिखितानि, संग्रहणीवृत्त्यादिभ्यो ज्ञेयानि / / 97 / /