________________ तवगणगयणदिणेसरसूरीसरविजयसेणसुपसाया / नरखित्तचारिचंदाइआण मंडलगमाईणं ||98 / / एसो विआरलेसो, जीवाभिगमाइआगमेहितो / विणयकुसलेण लिहिओ, सरणत्थं सपरगाहाहिं ||99 / / / / इति मण्डलप्रकरणं संपूर्णम् / / तव 0 / एसो 0 / स्वकृतपरकृतगाथाभिः स्मृत्यर्थं लिखितो विचारलेशो न नूतनो विहितः किन्तु श्रीमुनिचन्द्रसूरिकृतमण्डलकुलकमेव प्रतिसंस्कृतं जीवाभिगमादिगाथामिः कतिभिः कतिभिर्नूतनाभिश्च / शेषं स्पष्टम् / / 98 / / 99 / / इति मण्डलप्रकरणवृत्ति : संपूर्णा / / गुरूतमतपगणपुष्करसूर्याः श्रीविजयसेनसूरीन्द्राः / श्रीमदकब्बरनरवरविहितप्रबलप्रमोदा ये / / 1 / / तेषां शिशुना वृत्तिः, स्वोपज्ञा व्यरचि विनयकुशलेन / मूलत्राणाह्वपुरे, करबाणरसेन्दु 1652 मितवर्षे / / 2 / / विरचितविबुधानन्दाः, विबुधाः श्रीलाभविजयनामानः / तैरेतस्याः शोधनसान्निध्यमधायि सुप्रज्ञैः / / 3 / / यच्च विरूद्धं किञ्चिद्भवति हि मतिमान्द्यतस्तथापीह | शोध्यमनुग्रहबुद्ध्या , येनेयं भवति सुपवित्रा / / 4 / /