________________ ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यस्फटिकमयानि भवन्ति / यानि पुनर्लवणसमुद्रे शिखाचारीणि ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्यादुदकस्फाटनस्वभावस्फटिकमयानि, ततस्तेषामुदकमध्ये चरतामुदकेन न व्याघातः, वारि द्विधा भवति, अग्रतो गमनानन्तरं जलं पुनर्मिलति / लवणशिखा षोडशयोजनसहस्रोच्चा , ज्योतिष्काणां चारो नवशतेष्वेव / शिखाव्यतिकरस्त्वेवम्-विशेषमार्गरूपो नीचो नीचतरो भूप्रदेशो गोतीर्थमिव गोतीर्थम् , तच्च लवणोदधौ उभयतः प्रत्येकं पञ्चनवतियोजनसहस्त्राः / तत्रादौ जम्बूद्वीपधातकीजगत्योः समीपे समभूभागापेक्षया उण्डत्वं तदुपरि जलवृद्धिश्च प्रत्येकमङ्गलसंख्येयभाग :, ततः परं क्रमादध ऊर्ध्वं च तथाकथञ्चित्प्रदेशानां हानिर्वृद्धिश्च यथा पञ्चनवतिसहस्रान्ते भूतलापेक्षयाऽधोऽवगाहो योजनसहस्रम् 1000, तदुपरि जलवृद्धिश्च सप्तयोजनशतानि 700, ततः परं मध्यभागे दशयोजनसहरत्राणि रथचक्रवद्विस्तीर्णभूतसमजलपट्टावं षोडशयोजनसहखाण्युच्चा सहरमेकमधोऽवगाढा लवणशिखा वर्तते , तस्याश्चोपर्यहोरात्रमध्ये द्विवारं किञ्चिन्यूने द्वे गव्यूते जलमधिकं पातालकलशवायो : क्षोभादुपशमाच्च वर्धते हीयते चेति / उक्तं हि-''पंचाणउइसहस्सो, गोतित्थं उभयओ वि लवणस्स / जोयणसयाण सत्त उ, उदगपरिड्ढि उभओ वि / / 1 / / दसजोअणसहरसा , लवणसिहा चक्कवालओ रूंदा / सोलससहस्स उच्चा, सहस्समेगं च ओगाढा / / 2 / / देसूणमद्धजोअण, लवणसिहोवरि दगं दुवे काले / अइरेगं अइरेगं परिवड्ढइ हायए वावि / / 3 / / '' ||95 / / अथ लवणशिखायां ज्योतिष्काणामूर्ध्वं तेजःप्रसरः कियान् ? इत्याह लवणम्मि उ जोइसिआ, उड्ढलेसा हवंति नायव्वा | तेण परं जोइसिआ, अहलेसागा मुणेअव्वा ||96 / / लव 0 / लवणसमुद्रे यानि ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्याच्छिखायां प्राप्तान्यूज़लेश्यकानि, शिखायामपि सर्वत्रोष प्रकाशो भवतीत्यर्थः / ततोऽन्यद्वीपसमुद्रेषु चन्द्रसूर्यविमानानि 'अधोलेश्याकानि' अधोबहुलप्रकाशानीत्यर्थः / अयं चार्थ : प्रायो बहूनामप्रतीतः, परं श्रीजिनभद्रगणिक्षमाश्रमणविरचित- विशेषणवतीग्रन्थाल्लिखितो न स्वमनीषयेति / तथा सर्वेषां ज्योतिप्काणां विमानान्यीकृतकपित्थफलाकाराणि / स्थापना