________________ इक्कारसजोअणसय, इगवीसिक्कारसाहिआ कमसो / मेरूअलोगाबाहिं, जोइसचक्कं चरइ ठाइ ||94|| इक्कारस 0 / एकादशयोजनशतान्येकविंशत्यधिकानि मेरो रबाधां-अन्तरं कृत्वा, एतावद्भिर्योजनैर्मेरूं दुरं विमुच्येत्यर्थः, चलं ज्योतिश्चक्रं मनुष्यलोके परिभ्रमति / तथैकादशयोजनशतान्येकादशाधिकान्यलोकाकाशस्याऽबाधयाऽचलं ज्योतिश्चक्रं तिष्ठति / शेषमेरूष्वपि संभावनेत्थमेव / इदं तु जम्बूद्वीपतारकापेक्षमचन्द्रसूर्य नक्षत्राणां तु जम्बूद्वीपमेरूत: 44820 योजनैः समन्ताहरे परिभ्रमणम् , नैतेभ्यो योजनेभ्योऽक्किदाप्यागमनं भवति / तारकाणां चान्तरं द्विधा-व्याघातजं नियाघातजं च / एकैकं द्विधा-उत्कृष्टं जघन्यं च / तत्रोत्कृष्टव्याघाते पर्वतादिस्खलने मेरूमपेक्ष्य भावनीयम् , यथा-मेरुर्दशसहरत्रयोजनात्मकः, तरय चोभयतोऽबाधया प्रत्येकमेकविंशत्यधिकान्येकादशशतानि 1121, ततः सर्वमीलने योजनानां द्वादशसहस्त्रा द्वे च शते द्विचत्वारिंशदधिके 12242 / जघन्यं तु निषधनीलवत्कूटाद्यपेक्षम् , यथा-निषधपर्वत स्वतोऽप्युच्चैश्चत्वारि योजनशतानि , तस्य चोपरि पञ्चयोजनशतोच्चानि कटानि, तान्यधचायामविष्कम्भाभ्यां पञ्चयोजनशतानि , मध्ये त्रीणि शतानि पञ्चसप्तत्यधिकानि 375, उपरि चार्धतृतीयानि योजनशतानि 250 , एतेषां कूटानामुपरितनसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्तीति जघन्यतो व्याघातजमन्तरं दे योजनशते षट्षष्ट्यधिके 266 / तथोत्कृष्टं तु निर्व्याघातजं कोशद्वयम् , जघन्यं पञ्चधनुःशतानि तारतारयोरन्तरम् / उक्तं हि संग्रहण्याम्-''तारस्स य तारस्स य, जंबुद्दीवम्मि अन्नतरं गुरूअं / बारसजोयणसहसा, दुन्नि सया चेव बायाला ||1|| छावडा दो अ सया, जहन्नमेअं तु होइ वाघायए / निव्वाघाए गुरूलह, दो गाउ धणुसया पंच / / 2 / / '' / / 94 / / अथ लवणसमुद्रे षोडशयोजनसहरत्रोच्चायां शिखायां चरतां चन्द्रसूर्यादिज्योतिष्काणां कथं न व्याघात: ? तन्निर्वचनमाह जोइसिआविमाणाई, सव्वाइं हवंति फालिअमयाइं / दगफालिआमया पुण, लवणे जे जोइसविमाणा ||95 / / जोइ 0 / इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि