________________ सदाप्यवस्थितं चरति , तत्र मण्डलेऽष्टौ नक्षत्राणि सन्ति , परं चन्द्रमण्डलं षट्पञ्चाशदेकषष्टिभागप्रमाणम् , नक्षत्रविमानं तु कोशमेकमेव , ततो. मण्डलविष्कम्भप्रान्ते मूलम् , शेषाणि तन्मण्डलस्थान्यपि किञ्चिदर्वाक संभाव्यन्ते / एवमभिजिदपि द्वादशस् सर्वाभ्यन्तरे ज्ञेयम् / ऊध्र्वाधश्च चोजने नक्षत्रपटले सर्वेषां नक्षत्राणामपरि स्वातिनक्षत्रम् , सर्वेभ्योऽपि नक्षत्रेभ्योऽधस्तनं भरणी चरति / / 91 / / अथ तारकाणां स्वरूपमाह रिक्खाण व ताराण वि, मंडलगाइं अवट्ठियाइँ सया / णेअव्वाइं णवरं, संपइ अपसिद्धसंखाइं / / 92 / / रिक्खा० / नक्षत्राणामिव तारकाणामपि मण्डलानि सदाप्यवस्थितानि ज्ञातव्यानि , प्रतिनियते निजे निजे एव मण्डले सञ्चरणात् / न चैवमाशङ्कनीयमेषां गतिर्न , यतस्तेऽपि प्रदक्षिणया जम्बद्वीपगत मेरु मेकमेवानुलक्षीकृत्य परिभ्रमन्ति, न च दक्षिणोत्तरगाः / ये दक्षिणचारिणो ये चोत्तरचारिणस्ते सर्वदा तथैव / तेषां मण्डलादिसंख्या सांप्रतीनशास्त्रे न दृश्यते / / 92 / / अथ भूमितः कियचं ज्योतिश्चक्रं चरति तदाह समभूतला उ अट्ठहिं, दसूणजोअणसएहिं आरब्भ / उवरि दसुत्तरजोअण, सयम्मि चिट्ठन्ति जोइसिया ||93 / / सम० | समात्-मेरूमध्यस्थिताष्टप्रदेशात्मकरूचकसमानाद्भुतलादष्टाभ्यो दशोनयोजनशतेभ्य आरभ्योपरि दशोत्तरे योजनशते (110) ज्योतिष्कास्तिष्ठन्ति / तथाहि-शतानि सप्त गत्वोष, योजनानां भवस्तलात् / नवतिं स्थितास्ताराः, सर्वाधस्तान्नभस्तले / / 1 / / तारकापटलादत्वा , योजनानां दशोत्तरे / सूर्याणां पटलं तस्मादशीतिं शीतरोचिषाम् / / 2 / / चत्वारि च ततो गत्वा , नक्षत्रपटलं स्थितम् / गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत् / / 3 / / शुक्राणां च गुरूणां च , भौमानां मन्दसंज्ञिनाम् / त्रीणि त्रीणि च गत्वोवं, क्रमेण पटलं स्थितम् / / 4 / / '' बहुत्वं चात्र सर्वद्वीपसमुद्रवर्तिज्योतिश्चक्रापेक्षं मन्तव्यम् / यन्त्रं चात्रावधार्यम्-- तारा. मर्यः चन्द्रः नक्षत्रं बुधः शुक्रः बृहस्पतिः मंगलःशनिः यो.७९० 800 880 884 888 891 894 897 900 __ अमीषामङ्कानां मीलने जातं दशोत्तरे 110 शतम् / इदं तूर्वाध:प्रमाणम् / / 93 / / अथ तिर्यक्तारकाणां प्रचारमाह M