________________ - तिन्ने० / 'तिरत्र उत्तरा' उत्तराफाल्गुन्यः 1 उत्तराषाढा : 2 2 उत्तराभद्रपदाश्च 3 पुनर्वसुः 4 रोहिणी 5 विशाखा 6 एतानि षण्नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चचत्वारिंशन्मुहूर्तसंयोगीनि भवन्ति / तथाहि-एतेषां सप्तषष्टिखण्डीकृत- स्याहोरात्रस्य सम्बन्धिनां भागानां शतमेकमेकभागस्याड़ क्षेत्रसीमायोगः / तत्रैषां भागानां मुहूर्तगतकरणार्थं भागशतं भागस्यैकस्यार्द्ध 9803 त्रिंशता गुण्यते जातानि पञ्चदशोत्तराणि त्रीणि सहस्राणि 3015, एतेषां सप्तषष्ट्या भागहारे लब्धाः पञ्चचत्वारिंशन्मुहूर्तास्तदेषां कालसीमा / / 89 / / अथ त्रिंशन्मुहूर्तचन्द्रयोगीनि पञ्चदशनक्षत्राण्याह अवसेसा नक्खत्ता, पन्नरस हवंति तीसइ मुहत्ता / चंदम्मि एस जोगो, णक्खत्ताणं मुणेयवो ||90|| अव 0 / 'अवशेषाणि' उक्तत्रयोदशव्यतिरिक्तानि श्रवण 1 धनिष्ठा 2 पूर्वभद्रपदा 3 रेवती 4 अश्विनी 5 कृत्तिका 6 मृगशिरः 7 पुष्य 8 मघा 9 पूर्वफाल्गुन्यः 10 हस्त 11 चित्रा 12 अनुराधा 13 मूल 14 पूर्वाषाढा 15 एतन्नामानि पञ्चदशापि नक्षत्राणि चन्द्रेण सह प्रत्येकं त्रिंशन्मुहूर्तसंयोगीनि भवन्ति / तथाहि-एतेषां नक्षत्राणां प्रत्येकं परिपूर्णानां सप्तषष्टिभागानां क्षेत्रसीमाविष्कम्भः, ते च त्रिंशद्गुणिता जाते द्वे सहर दशोत्तरे, ते च सप्तषष्ट्या भागे हृते लब्धास्त्रिंशदेव , तदेषां त्रिंशन्मुहूर्ताः कालसीमाप्रमाणम् / सूर्यस्यापि नक्षत्रयोगो गाथाभिरिमाभिज्ञेय :-''अभिइ छ च्च मुहत्ते , चत्तारि अ केवले अहोरते / सरेण समं गच्छड़, इत्तो सेसाण वुच्छामि / / 1 / / सयभिसया भरणीओ, अद्दा साइ जिल्हा य / वच्चंति महत्तेकवीसइ छ च्चेवऽहोरत्तो / / 2 / / तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य / वच्चंति मुहत्ततिगे, चेव वीसं अहोरते / / 3 / / अवसेसा णक्खत्ता, पन्नरस सूरं सह गया जंति / बारस चेव मुहत्ते , तेरस पुणे अहोरत्ते / / 4 / / 90 / / अथ नक्षत्रपटले सर्वमध्ये किम , उपरि किम् , अधश्च किं नक्षत्रम् ? इत्याह सबभंतर अभिई, मूलं पुण सव्वबाहिरे होई / / सब्बोवरिं तु साई, भरणी सव्वस्स हिट्ठिम्मि ||91 / / सव० / उत्तरस्यां दिशि जगतीतोऽशीत्यधिकशते सर्वाभ्यन्तरे / माण्डलेऽभिजिक्षत्रम् / पुनः सर्वबाह्ये मण्डले दक्षिणस्यां दिशि मूलं