________________ अभिइस्स चंदजोगो, सत्तट्ठीखंडिओ अहोरत्तो / ते हुंति नव मुहत्ता, सत्तावीसं कलाओ ||87 / / अभिइस्स० / अभिजिन्नक्षत्रस्य चन्द्रेण सह योगः सप्तषष्टिभागीकृतमहोरात्रगम्यक्षेत्रं तस्यैकविंशतिर्भागाः क्षेत्रतः, कालतो नव मुहूर्ता एकस्य मुहूर्तस्य च सप्तविंशतिः सप्तषष्टिभागा: / तथाहि-सर्वेषामपि नक्षत्राणां सीमा विष्कम्भत : पूर्वापरतश्चन्द्रस्य नक्षत्रभूक्तिक्षेत्रविस्तारो नक्षत्रेणाहोरात्र गम्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो विभक्तः समच्छेदः प्रज्ञप्तः / भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदता भवति , भागान्तरेण न वक्तुं शक्यत इत्यर्थ: / ततो नक्षत्रेणाहोरात्रगम्यक्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमा विष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यते / तदनु श्रवणेन सह योगः, शीघ्रगामित्वेनाभिजितोऽग्रे गमनात् / तथास्यामेवैकविंशतौ त्रिंशन्मुहूर्तत्वादहोरात्रस्य त्रिंशता गुणितायां जातानि षट् शतानि त्रिंशदधिकानि 630, तेषां सप्तषष्ट्या भागहारे नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागा : 9 27 / / 87 / / अथ पञ्चदशमुहूर्तयोगीनि षण्नक्षत्राण्याह सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य / एए छन्नक्खत्ता, पन्नरसमुहत्तसंजोगा ||88 / / सय० / शतभिषक् 1 भरणी 2 आर्द्रा 3 अश्लेषा 4 स्वाति 5 ज्येष्टा 6 चैतानिषट् नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चदशमुहूर्तसंयोगीनि / तथाहि-एतेषां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सार्धास्त्रयस्त्रिंशद्भागान् - यावच्चन्द्रेण सह योगः / ततः कालमानाय मुहूर्तभागकरणार्थं त्रयस्त्रिंशत्त्रिंशता गुण्यते जातं 990, अर्द्धरित्रंशद्गुणितः पञ्चदश भवन्ति , तेषां पञ्चदशानां क्षेपे जातं पञ्चोत्तरं सहस्रं 1005, एतस्य सप्तषष्ट्या भागहरणे लब्धाः पञ्चदश मुहूर्ताः 15, तदेषां कालसीमा / / 88 / / अथ पञ्चचत्वारिंशन्मुहुर्तयोगीनि षण्नक्षत्राण्याह तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य / एए छन्नक्खत्ता, पणयालमुहत्तसंजोगा ||89 / /