________________ सर्वाभ्यन्तरात्सप्तमे चन्द्रमण्डले रोहिणी 1 चित्रे 2 ढे, नक्षत्रमण्डलं चतुर्थम् / सर्वाभ्यन्तरादष्टमे चन्द्रमण्डले एका विशाखा, नक्षत्रमण्डलं पञ्चमम् 5 / सर्वाभ्यन्तरान्मंडला-त्पुनर्दशमेऽनुराधा , नक्षत्रमण्डलं षष्ठम् 6 / एकादशे चन्द्रमण्डले ज्येष्ठा , नक्षत्रमण्डलं स्प्तमम् 7 / / 83 / / मिग० / मृगशीर्ष 1 आर्द्रा 2 पुष्य 3 अश्लेषा 4 हस्त 5 मूल 6 पूर्वाषाढा 7 उत्तराषाढा 8 एतान्यष्टौ नक्षत्राणि सर्वबाह्ये पञ्चदशे चन्द्रमण्डले सन्ति, नात्रमण्डलमष्टमम् / / 84 / / अथ येषु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति तान्याह सेसेसु मंडलेसुं, सत्तसु ससिणो न हुति रिक्खाणि / अट्ठसु हवंति ताणं, अढेव य मंडलाणि तओ ||85 / / सेसे० / 'शेषेषु द्वितीयचतुर्थपञ्चमनवमहादशत्रयोदशचतुर्दशसंज्ञेषु सातसु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति / पूर्वोक्तेष्वष्टसु चन्द्रमण्डलेषु नक्षत्राणि सन्ति , 'ततः तस्मात्कारणात्तेषामष्टावेव मण्डलानि भवन्ति / / 8.5 / / अथ नक्षत्रमण्डलानामवस्थितत्वमाह--- रिक्खाणि मंडले जाणि वुत्ताणि ताणि तत्थेव / निच्चं चरंति चंदाईणं भोग तह उ बिति / / 86|| रिक्खा० यानि नक्षत्राणि यस्मिन्मण्डले उक्तानि तानि तत्रैव नित्यं' आकालं चरन्ति , तत्तन्निजं निजं मण्डलं त्यक्त्वा नान्यत्र मण्डले गच्छन्ति / चन्द्रादीनामुपभोग्यानि, आदिशब्दात्सूर्यग्रहाणां ग्रहः ! अष्टाविंशतिनक्षत्राणां मध्ये द्वादश नक्षत्राणि सर्वाभ्यन्तरमण्डलस्थानि चन्द्रस्योत्तरेमोत्तररयां दिशि व्यवस्थितानि सदा योगं युअन्ति / योगः किम् ? उच्यते, नक्षत्रसीमावर्तिना चन्द्रेण सह नक्षत्राणां संबन्धो योगः | अश्य नक्षत्राणि सर्वबाहामण्डलस्थानि चन्दस्य दक्षिणस्यां दिशि व्यवस्थितानि सदा योगं युअन्ति ! सर्वाभ्यन्तरसर्वबाह्ये नक्षत्रमण्डले त्यक्त्वा शेषाणि षण्मध्यमाण्डलस्थान्यष्टौ नक्षत्राणि कदाचिदुत्तरयोगीनि कदाचिद्दक्षिणयोगीनि कदाचित्यमर्दयोगीन्यपि / प्रमर्दमिति कोऽर्थः ? तेषां नक्षत्राणां मध्येन भूत्वा चन्द्रो व्रजति गच्छतीति समवायाङ्गे प्रोक्तम् / / 8.6 / / अथ किं, नक्षत्रं कति मुहूर्तानि चन्द्रेण सह चरति ? तत्र प्रथममभिजिन्नक्षत्रमाह---