________________ सृयभोग्यात्सप्तमराशौ चन्द्र:, चन्द्रभोग्यात् सप्तमराशौ सूर्य: / शुक्लपक्षे टिनोदयस्वरूपं प्रोच्याथ सार्द्धगाथया कृष्णपक्षे चन्द्रस्य रात्रावुदयस्वरूपमाह 0 - बहुल' त्ति कृष्णपक्षप्रतिपन्निशाया मुहूर्ते गते चन्द्रस्योदयो भवति / / 75 / / तत: किं स्यात् ? इत्याह एवं मुहत्तवुड्डी, भागं चावरइ पइदिणं राहू | तेण अमावस्साए, होइ तहा जं पुरा वुत्तं / / 76 / / एवं मु० / एवं' अमुना प्रकारेण मुहूर्त्तवृद्धिर्भवति, यथा कृष्णद्वितीयायां महतद्वये गते चन्द्रोदयो यावदमावास्यायां पञ्चदशमुहर्त्तवृद्धिः / राहरपि प्रतिदिवसं पञ्चदशमेकैक भागमावृणोति 'तेन' कारणेनामावास्यायां तथाभवति तत्पुरा प्रोक्तं-सूर्येण सममुदयमित्यादिकं सर्वम् / अत्र किञ्चिद्दिनमानापेक्षया उदयवेलायाः स्तोकत्वमधिकत्वं वा चिन्त्यम् / किञ्च रात्रेर्यावद्भिर्मुहूर्तरूदयस्तावद्भिर्महतैर्दिती यदिवसेऽस्तमयनमपि भाव्यम् / / 76 / / अथ पर्वराहस्वरुपमाह ससिसूराणं गहणं, सड्डतिवरिसाडयालवरिसेहिं / उक्कोसओ कमेणं, जहन्नओ मासछक्केणं ||77 / / ससिसू० / य: पर्वराहः स पर्णिमारात्रौ चन्द्रविमानं तथाऽमावास्यादिने सूर्यविमानं तिरोधत्ते , तस्मिंस्तिरोहिते ग्रहणमिति रूढिः / तच्च ग्रहाणं चन्द्रसूर्ययोः क्रमेणोत्कृष्टत: सार्द्धवर्षत्रयेण चन्द्रस्याप्टचत्वारिंशद्वर्षे : सूर्यस्य च भवति / जघन्यतः पुनरूभयोर्मासषट्केनैवेति स्थितिः / / 77 / / अथ ग्रहणस्य पुनर्विशेषमाह ससिणो वा रविणो वा, जइआ गहणं तु होइ एगस्स | तइआ तं सव्वेसिं, ताणं ने मणुअलोए / / 78 / / ससिणो० / यदा कदाचिदेकस्य शशिनो रवेर्वा ग्रहणं भवति तदा सर्वेषां चन्द्राणां सूर्याणां च मनुष्यलोके समकं जायते, एकस्य चन्द्रस्य तदा सर्वेषां चन्द्राणाम् , एकस्य सूर्यस्य तदा सर्वेषां सूर्याणां नरक्षेत्रवर्तिनां भवति, यतः सर्वेषामप्येकनक्षत्रराशिस्थितिकत्वात्सम श्रेणिव्यवस्थितत्वाच्च / न चेदं स्वमनीषया लिखितं किन्त्वनुयोगद्वारवृत्त्यादौ तथैव दर्शनात् , तथा च तवृत्ति:चन्द्रसूर्योपरागा:- राहुग्रहणानि, बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्ति- 20