________________ तत्तो पडिवयबीआइदिणेसु रिक्खाइभेअमावहइ / इक्किक्कमुहत्तेण य, सूरा पिढे पडइ चंदो ||72 / / तत्तो प० / 'ततः तद्दिनानन्तरममावास्यातः प्रतिपद्वितीयादिदिनेषु चन्द्रो ऋक्षादीनां भेदं-अन्तरमावहति, नक्षत्रराशिमण्डलेभ्योऽन्तरं प्राप्नोतीत्यर्थः, तथा च प्रतिदिनमेकैकमुहूर्तेन सूर्यात्पृष्ठे पतति ||72 / / पुनः किं भवति ? इत्याह राहू वि अ पइदिअहं, ससिणो इक्किक्कभागमुज्झइ अ / इअ चंदो बीआइअदिणेसु, पयडो हवइ तम्हा / / 73 / / राहू वि० |राहरपि प्रतिदिवसमेकैकं पञ्चदशभागं 'उज्झइ' ति त्यजति, 'इति' अमुना प्रकारेण चन्द्रोऽपि द्वितीयादिषु दिनेषु तस्मात्प्रकटो भवति / भावना यथा-शुक्लप्रतिपादयस्तथैव , अमावास्यातो मण्डलादीनामन्तरं जायते , मन्दगतित्वेन सूर्यान्मुहूर्तेनैकेन चन्द्रः पृष्टे पतति ,राहुरप्येकं भाग मुञ्चति, परं सायं सूर्यकिरणावृतत्वेन न तथा सम्यग्दृग्गोचरमायाति / द्वितीयादिने सूर्योदयादनूदयेन द्वितीयभागमोचनेन मुहूर्तद्विकगम्यक्षेत्रपृष्ठपतनेन च सायं सूर्यादुरत्वाद् दृश्यते, एवं सर्वासु शेषतिथिषु ज्ञेयं पूर्णिमां यावत् / गतेः शीघ्रविभागस्त्वेवम्-सर्वमन्दगतिश्चन्द्रः, तस्माच्छीघ्रो रविः, तस्माद्ग्रहाः, तेभ्यो नक्षत्राणि, ततस्तारा: / ग्रहमध्ये तु बुधाच्छुक्रः शुक्रान्मङ्गलो, मङ्गलाद् बृहस्पतिवृहस्पतेः शनिः शीघ्र इति संग्रहणीवृत्तिगतम् / / 73 / / अथ पूर्णिमायां यत्स्यात्तदाह सयलो वि ससी दिसइ, राहुविमुक्को अ पुण्णिमादिअहे / सूरत्थमणे उदओ, पुवे पुवुत्तजुत्तीए ||74 / / सयलो० | पूर्णिमायां सकलोऽपि शशी राहुविमुक्तः सन् दृश्यते / सूर्यास्ते पूर्वस्यामुदयं प्राप्नोति, पूर्वोक्तयुक्त्या’ पञ्चदशमुहूर्तेः सूर्यात्पृष्टे पतितत्वेन / / 74 / / पूर्णिमायां विशेषमाह ससिसूरामिह पुण्णिमि, हुंति उ रासीण उभयसत्तमगे। बहुलपडिवयनिसाए, गए मुहत्ते हवइ उदओ / / 5 / / ससिसू० / सर्वास्वपि पूर्णिमासु शशिसूर्यौ परस्परं सप्तमराशौ भवतः, ----- -