________________ सोल० / षोडशभागान् कृत्वा 'उड़पति चन्द्र : कृष्णपक्षे प्रतिदिनमेकैकं 2 पञ्चदराभागं परिहापयति, एवं पञ्चदशदिनैः पञ्चदशभागा भवन्ति , एकोऽनावृतोऽवशिष्यते / शुक्लपक्षे त्वेकैकः पञ्चदशभागो वर्धते तेन राकायां पूर्णा : षोडशभागा भवन्ति / ज्योतिष्करण्डकेऽपीत्थमेव / अनेन भणितत्रयानुसारेण स्तोको वा घनो चन्द्र उद्धाटस्तिष्ठति ,न च सर्व : कदापि नित्यराहुणा चन्द्र आवियते / आह च-चन्द्रविमानस्य पञ्चैकषष्टिभागोनयोजन-मानत्वाद्राविमानस्य ग्रहविमानत्वेनार्धयोजनमात्रत्वाच्च कथं सर्वात्मनावरणस्य संभव : ? , उच्यते, ग्रहविमानानामुक्तप्रमाणस्य प्रायिकत्वाद्राहुविमानमधि-कप्रमाणमपि संभाव्यते / अन्ये त्वाहुर्लघीयसोऽपि राहविमानस्याऽत्यन्तबहुलेन प्रसपता तमिरत्ररश्मिजालेन महदपि चन्द्रविमानमावियते / अथवा महदपि चन्द्रविमानमक्स्थिायिना लघुनापि राहुविमानेनाच्छादितमधस्तनैलॊकैर्न दृश्यत इति / / 69 / / अथ श्वेतकृष्णाभिधे तृतीयचतुर्थे द्वारे आह एवं वड्ढइ चंदो, परिहाणी होइ एवं चंदस्स | कालो वा जोण्हा वा, तेणणुभावेण चंदस्स ||70|| एवं वि० / इत्थं राहुविमानेन प्रतिदिनं क्रमेणाऽनावरणकरणतश्चन्द्रः 'वर्धते' वर्धमान H प्रतिभासते, एवं राहविमानेन प्रतिदिवसं क्रमेणावरणकरणतः परिहानिप्रतिभासो भवति / चन्द्रस्य विषये 'तेनानुभावेन' तेन कारणेन एकः पक्ष : 'काल : कृष्णो भवति यत्र चन्द्रस्य परिहाणिप्रतिभासः ,एकस्तु ज्योत्स्नावान् शुक्लपक्ष : यत्र चन्द्रविषया वृद्धिः प्रतिभासते / 'कालो वा जोण्हा वा' इत्यत्र द्वौ वा शब्दौ तुल्यकक्षताद्योतकौ / अत्र श्वेतपक्षात्पूर्वं कृष्णपक्षाख्यानं तयत्ययकारणं जीवाभिगमेऽपि नोक्तम् / / 70 / / अथ चन्द्रस्य कदा रात्रावुदयः कदा दिवसेऽप्युदयस्तद्वारद्वयं व्याचिख्यासुर्गाथाषट्केनाह सूरेण समं उदओ, चंदस्स अमावसीदिणे होइ / तेसिं मंडलमिक्कं, रासी रिक्खं तहिक्कं च / / 71 / / सूरेण० / सूर्येण सार्द्ध सर्वास्वप्यमावास्यासु प्रातश्चन्द्रस्योदयो भवति, तस्मिन् दिने चन्द्रसूर्ययोर्मण्डलमेकं भवति, यस्मिन्मण्डले सूर्यस्तदूर्ध्वमेव चन्द्रोऽपि निजमण्डले चरति / तथा तयो राशिर्नक्षत्रं चैकमेव , यस्मिन् राशौ नक्षत्रे च सूर्यस्तस्मिंश्चन्द्रोऽपि ||71 / / ततः किं भवति ? इत्याह