________________ 5 केन च दिवाप्युदयोऽपि ? 6 // 66 / / अथैतान् षट् प्रश्नान् विवृण्वन् प्रथम राहुस्वरूपमाह किण्हं राहुविमाणं, निच्चं चंदेण होइ अविरहिअं / चउरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरइ / / 67 / / किण्हं० / इह द्विधा राहुः, नित्यराहुः पर्वराहुश्च / तत्र यो नित्यराहुस्तस्य विमानं कृष्णम् , तच्च जगत्स्वाभाव्यात् 'नित्यं' आकालं चन्द्रेण सार्द्धमविरहितं चतुर्भिरङ्गलैरप्राप्तं सच्चन्द्रविमानस्याधस्ताच्चरति // 67 / / अथ चन्द्रस्य वृद्धिहानिस्वरूपमाह बावहिँ बावडिं, दिवसे दिवसे उ सुक्कपक्खस्स | जं परिवड्डइ चंदो, खवेइ तं चेव कालेण ||68 / / बाव० / द्वाषष्टिभागीकृतचन्द्रविमानस्य द्वौ भागावुपरितनौ सदाप्यनावार्यस्वभावत्वात्तावपाकृत्य शेषा : षष्टिभागाः पञ्चदशभागैर्हियन्ते चत्वारो लभ्यन्ते / अवयवे समुदायोपचाराच्छुक्लपक्षस्य दिवसे दिवसे चतुरो द्वाषष्टिभागान् यान् परिवर्धते 'कालेन' कृष्णपक्षेण पुनर्दिवसे दिवसे तानेव द्वाषष्टिभागान् 'क्षपति' परिहायति / उक्तं हि—''पन्नरसाभागेण य, चंदं पन्नरसमेव तं वरड् / पन्नरसविभागेण य, तेणेव कमेणऽवक्कमइ ||1 / / '' व्याख्या-कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशभागेन तं चन्द्रमिति चन्द्रविमानस्य पञ्चदशमेव भागं वृणोति' आच्छादयति / शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमा त्मीयेन पञ्चदशभागेन 'व्यतिक्रामति' मुञ्चतीत्यर्थः / जीवाभिगमवृत्तिगतमिदम् / / समवायाङ्गवृत्तौ तु द्विषष्टिस्थाने-''बावहिं बावडिं'' इत्यत्र चन्द्रविमानस्यैकत्रिंशदुत्तरनवशतविभक्तस्य 931 एकोऽशोऽवशिष्यते , शेषा : प्रतिदिवसं द्विषष्टिर्दिषष्टिवर्धन्ते, एकत्रिंशदुत्तरनवशताङ्कस्य पञ्चदशदिनरूपभागैर्हतस्य द्वाषष्टेलभ्यमानत्वात् , एकः शेषः, तत: पञ्चदशदिनैः सर्वे समुदिता भवन्ति / कृष्णपक्षे पुनस्तथैव हीयन्त इति व्याख्यातम् / / 68 / / अथ तृतीयं मतं सूर्यप्रज्ञप्तिगतमुच्यते सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं / तत्तियमित्ते भागे, पुणो वि परिवड्डए जोण्हा ||69 / /