________________ णरलोगम्मि अ सेसे, एवं दिणरयणिमाणमवि नेअं / नवरं बहिआ बहिआ, ससिसूराणं गई सिग्घा ||64 / / णर० / एवं' अनेन न्यायेन शेषे नरलोके दिनरात्रिमानमपि जम्बूदीपवज्ज्ञेयम्, तत्रत्यपूर्वविदेहपश्चिमविदेहभरतैरावतादिषुसर्वाभ्यन्तरमण्डलेचारिषु सूर्येषु दिनमष्टादशमुहूर्तं रात्रिद्वादशमुहूर्तेत्यादिकं तथैव परिभावनीयम् / यतो येषु दिनेषु जम्बूद्वीपे मध्यबाह्यमण्डलेषु सूर्यो भवतस्तेष्वेव दिनेषु तेऽपि सूर्यास्तत्रत्यमध्यबाह्यमण्डलेष्वेव भवन्ति / उत्तरचारित्वं दक्षिणचारित्वं च सर्वेषां 132 समकं भवति , एकनामकनक्षत्रराशिषु सर्वेषां सूर्याणामवस्थानात् / 'नवरं' इत्ययं विशेषः- लवणादिषु ये येभ्यो बहिः सूर्यास्तेषां 'गतिः' चलनं 'शीघ्रा' शीघ्रतरा जायते / / 64 / / अथ सर्वत्र क्षेत्रेषु दिनरात्रिसम्बन्ध्यष्टप्रहरकालस्वरुपमाह पढमपहराइकाला, जंबुद्दीवम्मि दोसु पासेसु / लब्भंति एगसमयं, तहेव सव्वत्थ णरलोए ||65 / / पढ० / प्रथमप्रहरादिका उदयकालादारभ्य रात्रेश्चतुर्थयामान्त्यकालं यावन्मेरोः समन्तादहोरात्रस्य सर्वे काला: समकालं जम्बूद्वीपे पृथक् पृथक क्षेत्रे लभ्यन्ते / भावना यथा-भरते यदा यत: स्थानात्सूर्य उदेति तत्पाश्चात्यानां दूरतराणां लोकानामस्तकालः, उदयस्थानाधोवासिनां जनानां मध्याह्नः,एवं केषाञ्चित्प्रथमः प्रहरः, केषाश्चिद्वितीयः प्रहरः, केषाश्चित्तृतीयः प्रहरः, क्वचिन्मध्यरात्रः क्वचित्सन्ध्या , एवं विचारणयाष्टप्रहरसम्बन्धी काल: समकं प्राप्यते / तथैव नरलोके सर्वत्र जम्बूद्वीपगतमेरोः समन्तात् सूर्यप्रमाणेनाष्टप्रहरकालसंभावनं चिन्त्यम् / / 65 / / सूर्यचन्द्रयोः स्वरूपमुक्त्वाऽथ चन्द्रस्य किञ्चिद्विशेषमाह केणं वड्डइ चंदो, परिहाणी होइ केण चंदस्स | केण सिअकिण्हपक्खा, दिणे अ रत्तिम्मि केणुदओ ||66 / / केणं० / केन प्रकारेण चन्द्रः शुक्लपक्षे वर्धते ? 1 केन प्रकारेण कृष्णपक्षे चन्द्रस्य परिहानिर्भवति ? 2 केन प्रकारेण शुक्लपक्षो भवति? 3 केन 5 प्रकारेण कृष्णपक्षोऽपि ? 4 केन प्रकारेण कदाचिच्चन्द्रस्य रात्रावुदयः स्यात् ?