________________ चन्द्रार्काणां युगपदुपरागभावान्मन्तव्यमिति / यच्च जीवाभिगमादावन्तरद्वीपादियौगलिकक्षेत्रेषु चन्द्रार्कोपरागाभावः प्रोक्तस्तत्तु तज्जयाजन्यासंभवस्तत्र 0 ज्ञायते / यद्वा तेषां पुण्यानुभावाद् ग्रहणादर्शनमपि संभाव्यते परं न ग्रहणासंभव:, || तत्रापि चन्द्रादित्यानां चारत्वेन / / 78 / / अथ चन्द्रार्का : कदा दक्षिणचारिणः कदोत्तरचारिणश्च भवन्ति ? इत्याह कक्काइमिआइसु छसु, रासीसुं दाहिणुत्तरा कमसो / मासेण हुंति ससिणो, सूरा संवच्छरेण पुणो ||79 / / कक्का० / कर्कादिषट्सु राशिषु-कर्क 1 सिंह 2 कन्या 3 तुला 4 वृश्चिक 5 धनुर्बु 6 वर्तमानाश्चन्द्रार्का दक्षिणचारिणो भवन्ति , उत्तरमण्डलेभ्यः क्रमेण दक्षिणमण्डलेषु गच्छन्ति / मृगादिषट्सु च-मकर 1 कुम्भ 2 मीन 3 मेष 4 वृष 5 मिथुनेषु 6 वर्तमानाश्चन्द्रार्का उत्तरचारिणो भवन्ति / बहुवचनमत्रसकलचन्द्रापेिक्षम् , यतः सर्वेऽपि सूर्याश्चन्द्रा वा दक्षिणोत्तरचारिणः समकालमेव भवन्ति, एकराश्यवस्थानात् / तत्र विशेषमाह-एकेन मासेन चन्द्रा दक्षिणोत्तरचारिणः, सूर्या : पुनः संवत्सरेण दक्षिणोत्तरचारिणो भवन्ति / अत्र मासो नक्षत्रमासो ग्राह्य : , स च सप्तविंशतिदिनान्येकविंशतिसप्तषष्टिभागाश्चेति 27 20 प्रमाणः, तदर्धेन 13 4 चन्द्रस्य दक्षिणायनमर्द्धन चोत्तरायणम् / यतश्चन्द्र 1 चन्द्र 2 अभिवर्धित 3 चन्द्र 4 अभिवर्धित 5 नामानः संवत्सरा 5, ते च त्रिंशदधिकाष्टादशशत-दिनसंख्ये युगे पञ्च भवन्ति। तत्रैकोनत्रिंशद्दिनमाना : सद्वात्रिंशद्वाषष्टिभागाश्चन्द्रमासा द्वाषष्टिः, सार्द्धत्रिंशद्दिनमानाः सूर्यमासाः षष्टिः, सप्तविंशतिदिनमाना : सैकविंशतिः सप्तषष्टिभागा नक्षत्रमासा : सप्तषष्टिर्युगे / तेन युगे चन्द्रस्य दक्षिणायनानि सप्तषष्टि :, उत्तरायणान्यपि सप्तषष्टिः, सर्वाणि युगे 134 चन्द्रायणानि / तथा सूर्यस्य युगे दशायनानि, तत्र पञ्च दक्षिणायनानि पञ्चैवोत्तरायणानि / त्र्यशीत्यधिकशतदिना- नामेकैकमयनं 183, तद्दशगुणं युगं 1830 दिनप्रमाणम् / तथा सूर्य: सर्वाभ्यन्तरे मण्डले दिनमेकं चरति , सर्वबाह्येऽपि दिनमेकम् , शेषेषु मण्डलेषु प्रवेशनिर्गमाभ्यां दिनद्वयम्, अतः प्रथमचरमदिनन्यूनत्वे सूर्यसंवत्सरे 366 दिनानि, स च पञ्चगुणितोऽष्टादशशतानि / युगस्य चादिः श्रावणासितप्रतिपदि, उक्तं हि-"सावणबहुलपडिवए, बालवकरणे