________________ भवनादन्तिमविजयद्वयप्रदेशे सन्ति / उक्तं हि लघुक्षेत्रसमासे, ''जोअणसयदसगंते, समधरणीओ अहे अहोगामा / बायालीससहस्सेहिं / गंतुं मेरुस्स पच्छिमओ / / 1 / / '' तत्रैवाष्टादशशतानि, अन्यत्र यथासंभवम् / अयं चाधःकरप्रसरो जम्बूद्वीपगतसूर्ययोरेव / अन्ये सूर्यास्त्वधोऽष्टशतान्येव तपन्ति , क्षेत्रस्य समत्वादिति / ऊर्ध्वं तु सर्वेषां शतमेकं करप्रसरः, यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके- 'जंबुद्दीवे दीवे णं भंते ! केवइअं खित्तं उड्ढं तवेंति केवइअं खित्तं अहो तवेंति केवइअं खित्तं तिरिअं तवेंति ? गोअमा ! एगं जोअणसयं उड्ढं तवेंति हेहा अट्ठारसजोअणसयाइं तवेंति / '' इत्यादि / एवं' अमुना प्रकारेण षट्सु दिक्षु रविकरप्रसरः ||57 / / अथ गाथाद्विकेन दिवसरात्रिस्थानान्याह जइआ जंबूमंदरनगाउ पुबावरेण होइ दिणं / तइआ रयणी नेआ, नरलोए दाहिणुत्तरओ ||58|| उत्तरदाहिणओ पुण, दिवसे पुवावरेण किर रयणी / भणिअमिणं पंचमसयपढमुद्देसे भगवईए ||59 / / जइआ० / यदा जम्बूद्वीपमध्यवर्तिमन्दराद्रे: पूर्वस्यामपरस्यां च मानुषाद्रिं यावत्सर्वत्र सम्बद्धं दिनं भवति तदा सकले नरलोके रात्रिर्दक्षिणोत्तरयोज्ञेया / / 58 / / उत्त० ।यदा चोत्तरदक्षिणयोः पुनर्वाभ्यां सूर्याभ्यां दिवसः स्यात्तदा पूर्वस्यामपरस्यां च 'किल' निश्चितं सर्वत्र सम्बद्धा मानुषोत्तरं यावद्रात्रिर्भवति , जात्येकवचनम्, इति भणितं दिनरात्रिस्वरुपं पञ्चमशतकप्रथमोद्देशके भगवत्याः , तदालापकञ्चायम्-"जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे दिवसो भवइ तया णं उत्तरड्ढे दिवसे भवइ ? , जया णं दाहिणड्ढउत्तरड्ढे वि दिवसे भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवइ ? जया णं भंते ! लवणसमुद्दे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्ढे दिवसो भवइ ? जया णं दाहिणड्ढउत्तरड्ढे दिवसो भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवइ ?, जया णं भंते ! धायइसंडे दीवे / दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्ढे वि दिवसो भवइ ? , जया णं धायइसंडे दाहिणड्ढउत्तरड्ढे दिवसे भवइ तया णं पुरच्छिमपच्चच्छिमे णं .