________________ राई भवइ ? , हंता गोयमा ! / एवं कालोए वि पुक्खरड्ढे वि / '' इत्यादि, काक्वा उद्देशकोऽवगाह्यः / / 59 / / अथ प्रतिद्वीपं प्रतिसमुद्रं कति दिवसा : 00 कति रात्रयश्च भवन्ति ? इत्याह दीवसमुद्देसु सया, रविप्पमाणा य वासरा हुंति / रयणीउ चंदसंखा, समसेणीए मणुअलोए ||60|| दीव० | नरलोकवर्तिसार्द्धद्वयद्वीपे समुद्रद्वये च यावन्तः सूर्यास्तावन्तो वासरा भवन्ति / भावना यथा-जम्बूद्वीपे मेरोरुभयतः समश्रेण्या द्वौ वासरौ, एवं लवणे एकैकपाधै उभय(द्वय)संभवाच्चत्वारः, धातकीखण्डे द्वादश, कालोदे द्विचत्वारिंशत् , पुष्करा॰ द्वासप्ततिः, एवं सर्वेऽपि द्वात्रिंशदधिकं शतं वासरा : सम्बद्धा समश्रेण्या भवन्ति, सर्वेषां सूर्याणां समकं चलनात् षष्ठ्या मुहूर्तेरेव मण्डलपूरणाच्च / तेषां मुहर्तगतिमानादिकं मण्डलपरिधे: षष्ठिभागहारैर्बोध्यम् / तथा चन्द्रप्रमाणा रात्रयोऽपि द्वात्रिंशदधिकं शतम् / तेषां मुहूर्तगतिमानादिकं साधिकद्वाषष्टिमुहूर्ते यम् / / 60 / / अथ यदा कर्कसङ् क्रान्तौ भरतेऽष्टादशमुहूर्तं दिनमानं तदा पश्चिमविदेहैरावतपूर्वविदेहादिष्वियन्मानमुतान्यथा ? इति प्रश्नस्योत्तरं गाथाद्वयेनाह पुव्वविदेहे सेसे, मुहुत्ततिगि वासरे निरिक्खंति / भरहनरा उदयंतं, सूरं कक्कस्स पढमदिणे // 61 / / भरहे वि मुहुत्ततिगे, सेसे पच्छिमविदेहमणुआ वि / एरवए वि अ एवं , तेण दिणं सव्वओ तुल्लं ||62 / / पुव० / पूर्वविदेहक्षेत्रे मुहूर्तत्रिकप्रमाणदिने सति कर्काद्ये दिने सूर्यमुदयन्तं भरतनराः भरतक्षेत्रवासिनो जनाः पश्यन्ति ||61 / / भर० / भरतक्षेत्रेऽपि मुहूर्तत्रिकप्रमाणे शेषे अवशिष्यमाणे दिने सति कर्काद्ये दिने पश्चिमविदेहमनुष्याः सूर्यमुदयन्तं पश्यन्ति / एवं अमुना प्रकारेण पश्चिमविदेहक्षेत्रे मुहूर्तत्रिके सति ऐरवतवासिनो नरा उदितं पश्यन्ति , ऐरवतेष्वपि मुहूर्तत्रिके पूर्वविदेहमनुष्याश्च , ततोऽग्रेतनक्षेत्रे मुहूर्त्तत्रिके दिने चटिते पाश्चात्यक्षेत्रे सूर्योऽस्तमेतीत्यर्थः / यथोदयवेलासम्बन्धि मुहूर्त्तत्रिकं लब्धं तथास्तसमयादर्वाग्मुहूर्त्तत्रिकं लभ्यते, अतः सर्वत्र क्षेत्रे सर्वाभ्यन्तरे वर्तमाने सूर्येऽष्टादशमुहूर्त तुल्यमेव , रात्रिश्च