________________ मागच्छति / तत्र चैकत्रिंशत्सहस्राण्यष्टौ शतान्येकत्रिंशदधिकानि त्रिंशच्च OP षष्ठिभागा योजनस्य 3183130 , एतावत्प्रमाणो मकराद्यदिने पूर्वस्यामपरस्यां। च करप्रसरो भवति , पूर्वापरमीलने तद्दिनोदयाऽस्तान्तरं जातं 63663 / अथोदीच्याम् 54 / / तदाह लवणे तिसई तीसा, दीवे पणचत्तसहस अह जम्मे / लवणम्मि जोअणतिगं, सतिभाग सहस्स तित्तीसा।।५५।। लव० / सर्वबाह्ये मण्डले सूर्यो लवणसमुद्रे त्रिंशद्योजनाधिकां त्रिशती याति , तेन लवणसम्बन्धीनि त्रीणि शतानि त्रिंशदधिकानि 330, द्वीपे च पञ्चचत्वारिंशत्सहस्राणि 45000, उभयमीलने 45330, उत्तरस्यां करप्रसरः / 'अह जम्मे' त्ति अथ याम्ये लवणदिशि त्रयस्त्रिंशत्सहरवाणि योजनस्य तृतीयांशयुतयोजनत्रयाधिकानि 33003 करप्रसरः / / 55 / / अथ याम्योत्तरयोः सर्वदा सर्वाग्रमाह पइदिणमवि जम्मुत्तर, अडसत्तरिसहस सहसतइअंसो / उद्धृह गुणवीससया, अठिआ पुवावरा रस्सी // 56 / पइ० / सर्वसंक्रान्तिषु प्रतिदिनं याम्योत्तरयोः करप्रसरमीलनेऽष्टसप्ततिसहरसा : सहरबतृतीयांशश्च 78333 / अपिशब्दः सर्वदाप्येतावत्प्रमाणस्थिरत्वसूचकः / तथोवधिश्च मीलने एकोनविंशतिशतानि समवायाङ्गेऽप्येकोनविशतिस्थाने तथोक्तत्वात्। तथा पूर्वस्यामपररयां च 'रवे रश्मयः' सूर्यकिरणानि सर्वदिनेष्वस्थिताः, सर्वमण्डलेष हानि-वृद्धिसद्भावात् / / 56 / / अथोधिस्तेजःप्रसरः पृथक्त्वमाह मयरम्मि वि कक्कम्मि वि, हिट्ठा अट्ठारजोअणसयाइं / जोअण सयं च उड्ढं, रविकर एवं छसु दिसासु।।५७।। मय० / 'मकरे' इति दक्षिणायनसर्वदिनेषु कर्के' इत्युत्तरायणसर्वदिनेषु च सूर्यादयोऽष्टादशयोजनशतानि तेजःप्रसरः / यतः सूर्यादधोऽष्टयोजनशतैः समभूतलम् , समभूतलापेक्षया योजनसहरमधोग्रामा : , ते हि जम्बूद्वीपापविदेहेषु - मेरोरारभ्य जगत्यभिमुखं द्विचत्वारिंशद्योजनसहरौ : क्रमेण क्षेत्रस्यातिनिम्नी -