________________ लवणोदधिर्भवति / एताः सूर्यदिशो न तु जनानाम् , जनानां सूर्यापेक्षया दिशो 12 भवन्तीत्युक्तम् / / 51 / / अथ षट्सु दिक्षु जम्बूद्वीपगतसूर्ययो: करप्रसरं . गाथाषट्केनाह सगचत्तसहस दुसई, तेवट्ठा तहिगवीस सटुंसा / पुवावकरपसरो, कक्के सूरा अहुत्तरओ ||52 / / सग० / कर्काद्यदिने योजनानां सप्तचत्वारिंशत्सहस्राणि द्वे च शते त्रिषष्ट्यधिके एकविंशतिश्च षष्टिभागाः 47263 0 एतावान्सूर्यात्पूर्वरयामेतावानेव सूर्यादपरस्यां करप्रसरः / इदं तु पूर्वमुक्तमपि षड्दिक्करप्रसराधिकारात्पुनः कथितम् / 'अहुत्तरओ' त्ति अथोत्तरतो मेरुदिशि करप्रसर उच्यते / / 52 / / तदाह असिइसऊण सहस्सा, पणयालीसाह जम्मओ दीवे / असिइसयं लवणे वि अ, तित्तीससहस्स सतिभागा ||53 / / असि० / सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य द्वीपान्तर्जगतीतोऽशीत्यधिक योजनशतप्रवेशात्तदून : 180 पञ्चचत्वारिंशत्सहरवाणि करप्रसरः, एतावता चतुश्चत्वारिंशत्सहस्त्राणि विंशत्यधिकान्यष्टौ शतानि 44820 मेरुं यावत्करप्रसरः / मेरुमध्यभागस्थरुचकप्रदेशं यावत्करप्रसर: सूर्यस्यास्ति परं तत्रावकाशाभावान्मेर्वन्तन प्रविशति / यद्यपि मण्डलसमयेणे#रोर्विष्कम्भो योजनदशसहस्रात्मको न लभ्यते किन्तु किञ्चिन्न्यूनस्तथापि व्यवहारेणैतावान् ग्राह्याः / अह जम्मओ' त्ति अथ याम्यतः-लवणदिशि द्वीपसम्बन्ध्यशीत्यधिक शतं 180, लवणे च त्रयस्त्रिंशत्सहस्राणि 'सतिभाग ति सहरातृतीयांशयुतानि योजनानि 33333 1, अशीत्यधिकशतमीलने जातः 33513 1 करप्रसरः एवमेतत्समश्रेणिस्थस्य द्वितीयरवेरपि करप्रसरो भाव्यः / / 53 / / अथ ततः प्रतिदिनं हीयमानो मकरे यावानवशिष्यते तदाह इगतीससहसअडसयइगतीसा तह य तीस सटुंसा / मयरे रविरस्सीओ, पुवरेणं अह उदीणे / / 54 / / इग० / सर्वाभ्यन्तरान्मण्डलाद्धहिर्निष्क्रामन् सूर्य : क्रमेण पूर्वापराभ्यां प्रतिदिनं षडशीत्या षडशीत्या योजनैः करप्रसरतो हीयमानैर्मकरे सर्वबाह्यमण्डल