________________ जस्स० / यस्य लोकस्य यत: स्थानादादित्य उदयमेति-दग्गोचरमायाति 19 तस्य लोकस्य सैव पूर्वदिग् ज्ञेया / तथा यत्र स्थाने सूर्योऽस्तमेति. अदृश्यतायोगात्सा 'अपरा' पश्चिमा च ज्ञातव्या / / 49 / / दाहि० / उदयमानसूर्याभिमुखस्य सतस्तस्य लोकस्य दक्षिणपार्श्वे दक्षिणा भवति वामपार्चे तूत्तरा | भावना यथा-पूर्वविदेहानां लोकानां या पश्चिमा सा भरतसम्बन्धिनां पूर्वा , भरते या पश्चिमा सा पश्चिमविदेहेषु पूर्वा, पश्चिमविदेहेषु या पश्चिमा सा ऐरवते पूर्वा, ऐरवते या पश्चिमा सा पूर्वविदेहेषु पूर्वेत्यादि / सूक्ष्मेक्षिकया यौगलिक्क्षेत्रवर्षधरादिषु सर्वत्र पूर्वादयो दिशो विचार्याः / यतो जम्बूद्वीपप्रज्ञप्त्याम्''जंबद्दीवे णं भंते ! सरिआ उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति ? 1 पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति ? 2 दाहिणपडीणमग्गच्छ पडीणउदीणमागच्छंति ? 3 पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छंति ? 4 हता गोअमा ! / '' इत्यादि, काक्वा प्रश्नः / तथा तापयतीति तापःसूयस्तदाश्रिता दिक् तापदिक, एता : पूर्वोक्तस्तापदिशोऽवगन्तव्या:, सूर्यप्रभवा इत्यर्थः / क्षेत्रदिशस्तू मेरु रुचकप्रभवा भवन्ति, रुचका अपि मेरुसर्वमध्यस्थिता अष्टौ प्रदेशा: समभतलस्थाने गोस्तनाकाराः / तत्र चतस्रो द्विप्रदेशादयो ट्युत्तराः शकटोद्धीसंस्थाना महादिश: पूर्वाद्याः, चतस्र एवैकप्रदेशा: मुक्तावलीनिभा विदिशः, द्वे च चतुष्प्रदेशात्मिके ऊर्ध्वाधोदिशाविति / तेन जम्बूद्वीपजगत्यां विजयनामद्वारि पूर्वा दिक्, एवं वैजयन्तद्वारि दक्षिणा, जयन्तद्वारि पश्चिमा , अपराजिते उत्तरा / एवं च सर्वत्र द्वीप जगतीद्वाराण्येतन्नामान्येव सन्तीति क्षेत्रदिनिर्णयः / अथ तापदिगपेक्षया 'सर्वेषां' कर्माकर्मभूमिजनानां मेरु: 'औतरः' उत्तरस्याम् , लवणोदधातकीखण्डकालोदपुष्कराद्धेष्वनेनैव क्रमेण जम्बूद्वीपसूर्यवद्दिग्विभागो ज्ञेयः, सर्वेषां समकं सञ्चरणात् / एतत्कथनेन सूर्यस्य मेरुसमन्ताच्चतसृषु (दिक्ष) गतिरुक्ता / ततश्च ये मन्यन्ते सर्य : समुद्रं प्रविश्य पाताले गत्वा पुन: पूर्वसमुद्रे उदेतीति तन्मतमपास्तम् / / 50 / / अथ सूर्यस्य दिशः सामान्येनाह पिढे पुवा पुरओ, अवरा वलए भमंतसूरस्स | दाहिणकरम्मि मेरु, वामकरे होइ लवणोही / / 51 / / पिढे० / मेरुं परितः प्रदक्षिणावर्तेन सूर्यस्य भ्रमतः पृष्ठे पृष्ठे पूर्वादिक्, पुरतः 'अपरा' इति पश्चिमा / सूर्यस्य दक्षिणहस्ते मेरुः, वामकरे