________________ एवं० / 'एवं पूर्वोक्तप्रकारे सति तेषां सूर्याणां मकरे सर्वबाह्यान्मण्ड2 लान्मध्ये प्रविशतां कर्के च सर्वाभ्यन्तराद्वहिर्निस्सरतां दिवसानां त्र्यशीत्यधिकशतेनानुक्रमश एकैको दशांशो वर्धते हीयते च / वृद्धिहानियोजनसंख्या दशमभागयोजनसंख्या च तत्तद्वीपसमुद्राणां मध्यबाह्यपरिध्यनुसारेण वाच्या / / 46 / / अथ जम्बूद्वीपादन्यरवीणां मण्डलसंख्या मण्डलान्तरप्रमाणं चारक्षेत्रविष्कम्भमानं चाह सव्वेसि पि रवीणं, सव्वेसिं मंडलाण अन्नुन्नं / दोजोअणंतरालं, पंचसयदहुत्तरो चारो ||47 / / सब्वे० / सर्वेषां रवीणां चतुरशीत्यधिकशतसंख्यानां मण्डलानामन्तरं प्रत्येकं द्वे योजने , चारक्षेत्रविष्कम्भस्तु दशोत्तराणि पञ्चशतयोजनानि ज्ञेयानि / अष्टचत्वारिंशदेकषष्टिभागास्तु स्तोकत्वान्नोक्ताः / अथवा प्रथममण्डलस्यान्त्यमण्डलस्य वा चाराभावादष्टचत्वारिंशन्नोक्ता : जम्बद्वीपाधिकारे चोक्ताः परमार्थस्त्वेक एव / / 47 / / अथ शेषचन्द्राणां चारक्षेत्रमानादिस्वरुपमाह इगसटुंसतिवन्ना, चंदाणं पंचनवहिअसयाइं / अट्ठहिं भागेहि जओ, अब्भहि मण्डलं ससिणो ||48 / / इग० / जम्बूद्वीपचन्द्राणामपि प्रत्येकं मण्डलानि पञ्चदशैव , तेषां मण्डलानां भूमिरन्तरं च सातिरेकाणि पञ्चत्रिंशद्योजनानि 35 30, एतस्मिन् चतुर्दशगुणे कृते समस्तं चारक्षेत्रं नवाधिकपञ्चशतयोजनमितं त्रिपञ्चाशच्चैकषष्टिभागयुतं 50946 , यतः कारणादष्टभिर्भागैरधिकं सूर्यबिम्बाच्चन्द्रबिम्बं षट्पञ्चाशद्भाग-मानत्वात् / अत्रापि विमानाक्रान्तभूमेरगणनादष्टचत्वारिंशद्भागानामकथनेऽपि पूर्वोक्तेन सह न विरोध: / / 48 / / अथ सर्वेषु क्षेत्रेषु दिक्चतुष्कनिर्णयस्वरुपं गाथायुगलेनाह जस्स जओ आइच्चो, उदेइ सा तस्स होइ पुबदिसा / जत्थ वि अ अत्यमेई, अवरदिसा सा उ नायव्वा ||49|| V दाहिणपासम्मि अ दाहिणा उ वामेण उत्तरा होइ / एआओ तावदिसा, सव्वेसिं उत्तरो मेरु ||50||