________________ 2134537 भवति / प्रवचनसारोद्धारवृत्तिगताऽष्टाशीत्यधिकशततमेन्द्रियविषयविचार 188 द्वारे- "इगवीसं खलु लक्खा , चउतीसं चेव तह सहस्सा | पंच य सयाइं भणिआ , सत्ततीसाइ अइरिता / / 1 / / इह नयणविसयमाणं , पुक्खरदीवड्ढवासिणो मणुआ / पुव्वेण य अवरेण य, पिहं पिहं तह दिणुक्किडे |2||'' उत्कृष्टदिवसे एतावद्यो जनत उदितं पश्यन्ति , तत्रैतावत्क्षेत्रपरिधिसद्भावात् / परमिदं सर्वाभ्यन्तरमण्डलं मानुषोत्तरादर्वाक् संभवति, येन शेषमण्डलानामवकाशो दशोत्तरपञ्चशतयोजनान्तर्विलोक्यत इति, तेनोक्ततेजःप्रसरः कतिचित्सहरप्रेन्यूनो ज्ञेयः / नवरमियान् विशेष :जम्बूद्वीपगतसूर्ययोर्दक्षिणोत्तरयोः करप्रसरेभ्यो लवणसमुद्रगतचन्द्रसूर्याणां दक्षिणोत्तरयोः करप्रसरः स्तोकः, पूर्वपश्चिमयोश्च भूयान् , क्षेत्रस्य परिधिबाहुल्यात् | धातकीखण्डे च षण्णां पंक्तिगतसूर्याणामुत्तरोत्तरं दक्षिणोत्तरयोस्तेज :प्रसरः स्तोकः पूर्वपश्चिमयोश्च वर्धते / एवं कालोदे पुष्कराद्धेऽपि पूर्वपश्चिमयोरतिबहलो वर्धत इति स्थितिः / परं यो यः सूर्यो यत्र चरति तदधोवासिनो जनास्तमेव सूर्यं पश्यन्ति नान्यं तथाजगत्स्वाभाव्यादयवस्थाभङ्गदोषप्रसङ्गाच्च / एवं चन्द्रग्रहादीनामपि व्यवस्था भावनीया / / 44 / / अथ तेषां रवीणां दशभागादिस्वरुपमाह सव्वपरिहीण एवं, सव्वे वि अ भाणुणो दसंसतिगं | तावंतुक्कोसदिणे, जहन्नए दुन्नि उ दससे ||45 / / सव० / लवणधातकीकालोदपुष्कराद्धेषु सर्वपरिधीनां 'एवं' अमुना प्रकारेण जम्बूद्वीपन्यायेन सर्वेऽपि भानवः दशांशत्रिकम्' इति त्रीन् दशभागान् कर्कस्था युगपत्सर्वाभ्यन्तरमण्डले सञ्चरन्त उत्कृष्टदिवसे तापयन्ति , तदा दिनमानमष्टादशमुहूर्तम् , रात्रिद्वादशमुहूर्ता / जघन्यदिवसे समकं सर्वबाह्यमण्डलस्था मकरे द्वौ दशभागौ तापयन्ति , तदा दिनमानं द्वादशमुहूर्तं , रात्रिरष्टादशमुहूर्ता / सर्वेषां सूर्याणां चतुरशीत्यधिकशतमण्डलेषु प्रत्येकं षष्ट्या मुहृतैरेव समकं परिभ्रमणात् / / 45 / / अथ तेषामपि सूर्याणां चारक्षेत्रतः सञ्चरतां कियद्दिनस्तापक्षेत्रं वर्धते हीयते च ? इत्याह एवं च सइ दसंसे, तेसिं पइसंतनीहरंताणं / वड्ढइ हायइ तेसीसएण दिवसाण अणुकमसो ||46 / /