________________ 31508 / 1 / एकेनान्त्येन गुणितो मध्यराशिस्तदेव भवति / ततो मध्य आयेन भज्यते लब्धं च द्विसप्ततं शतं, शेषा द्वात्रिंशत्स्थिताः, ते च षष्टिगुणिता: 1920, चतुष्पञ्चाशच्च षष्टिभागा मीलिता: 1974 भवन्ति , तेऽपि 183 भक्ता लब्धा दश 10 शेषाः 48, द्विसप्तत्य-धिकशतस्रा चार्द्ध षडशीतिर्योजनानि 86 573, उक्तोऽप्ययमर्थो दशमभागविभजनार्थमुक्तः / चन्द्रस्याप्येष राशिः 31508 10 चतुर्दशविभक्तो वे सहर साढे च द्वे शते सप्तत्रिंशच्च षष्टिभागाः 225027 / / 42 / / अथ मनुष्यलोकचारिशेषसूर्याणां वक्तव्यतामाह एवं सेसरवीण य, पयासखित्तं दसंसकप्पणया / ता नेअं जा चरमो, पुक्खरदीवड्वभाणु त्ति / / 43 / / एवं० / एवं' अमुना प्रकारेण शेषरवीणामपि नरलोकवर्तिजम्बूवर्जदीपद्वय समुद्रद्वयचक्रवालदशांशकल्पनया दशभागविभजनया प्रकाशक्षेत्रयोजनप्रमाणं स्वस्वदीपसमुद्रमध्यबाह्यपरिधीनामनुसारेण तावज्ज्ञेयं यावत्पुष्कराद्धे चरमभानुरेकैकपंक्तिगतषट्षष्टितमः सूर्य इति , पर तेषामन्तरालसूर्याणां नैश्चयिकस्थानं परस्परमन्तरं च शारष्वदर्शनाद्योजनादिमितिर्न लिखिता / जीवाभिगमे लवणोदवक्तव्यतायां द्वितीयखण्डे जम्बूद्वीपगतसमश्रेणिप्रतिबद्धो दक्षिणतः सूर्यः शिखायामभ्यन्तरं चारं चरति, द्वितीयः शिखायाः परतः / एवमुत्तरतोऽपि शिखाया आरतः परतः सूर्यो / चन्द्रचतुष्कमप्येवमेव / / 43 / / अथ पुष्करा॰ चरमभानोः कियाँस्तेजःप्रस्तरस्तदाह लक्खेहिँ एगवीसाइ साइरेगेहिं पुक्खरद्धम्मि / उदए पिच्छंति नरा, सूरं उक्कोसए दिवसे ||44 / / लक्खे० / सातिरेकैकविंशतिलक्षयोजनैः सर्वान्तिमं सूर्यमुपलक्षणाच्चन्द्रमप्युदयन्तमस्तमयन्तं च सर्वाभ्यन्तरे मण्डले उत्कृष्टेऽष्टादशमुहूर्ते दिवसे पुष्करार्द्ध मनुजाः पश्यन्ति / तत्र परिधिरेवम्-'एगा जोअणकोडी, बायालीसं हवंति लक्खाइं / तीसं चेव सहस्सा , दो चेव सया अउणवन्ना / / 1 / / '' 714230249 इतिपरिधेर्दशभागाः क्रियन्ते ताद्दशः सार्द्धभागस्तेजः प्रसरः 87