________________ एअ० / एतस्य' अनन्तरोक्त(स्य) राशेः 31508 14 त्रिगुणकरणेन ? यो राशिर्भवति 94526 42 स रवेः कर्कसंक्रान्त्याद्यदिनसत्कश्चारो ज्ञेयः / / उदयास्तसमये च 'तस्सद्ध' त्ति तस्यात्प्रातरुद्रच्छन् सायमस्तमंयश्च सूर्यो दृश्यते / / 39 / / तद्योजनान्याह- सीआ० / सप्तचत्वारिंशत्सहस्त्राणि त्रिषष्ट्यधिके द्वे च शते एकविंशतिषष्टिभागाश्च 47263 21, एतावद्योजनेभ्यो दूरतः सर्वाभ्यन्तरे मण्डले सूर्यमुदयन्तमस्तमयन्तं च कर्काद्यदिने जम्बूद्वीपसत्कपूर्वविदेहभरतपश्चिमविदेहैरावतादिषु वासिनो नरा: पश्यन्ति / यच्चेहोदयमानः सूर्यो भूमिलग्नो दृश्यते तत्तु दूरत्वात् / परं भूमितः सर्वत्रोच्चैस्त्वेन समो वर्तते / यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके- 'जम्बूदीवेणं भंते ! सूरिआ उग्गमणमुहत्तंसि मज्झंति अमुहतंसि अत्यमणमुहत्तंसि सव्वत्थ उच्चत्तेण समा ? हंता गोअमा !'' इत्यादि / / 40 / / अथोत्कृष्टदिवसे सूर्यस्य पश्चादग्रे च मिलितं कियत्तापक्षेत्रं स्यात् ? तदाह एअं चेव य दुगुणं, उभओ पासेसु तावखित्तं तु | एअं चेव य सव्वं, दट्ठवं बीअरविणो वि ||41|| एअं० / 'एतद् अनन्तरोक्तं तापक्षेत्रप्रमाणं 47263 0 पश्चादप्येतावदग्रतोऽप्येतावत्सूर्यस्योभयपार्धाभ्यां कृत्वा द्विगुणं भवति 94526 12 कर्कस्य प्रथमदिने। तथैतदेव सर्वं पूर्वोक्तस्वरुपं जम्बूद्वीपवर्तिद्वितीयरवेरपि द्रष्टव्यम् ||41 / / अथ कर्काद्यदिनवर्जशेषदिवसेष प्रतिदिवसं तेजसः का हानिः ? मकरात्का वृद्धिर्वा ? द्वात्रिंशत्तमगाथावृत्तौ करणेनोक्तापि साक्षादक्षरेणाह जंबूदीवे पइदिणमुभओ पासेसु तावखित्तस्स | छासीइ जोअणाई, अहिआई वुड्डिहाणीसु ||42 / / जंबू० / जम्बूद्वीपे सूर्यस्य पूर्वापरयोरेकैकपार्श्वे तापक्षेत्रस्य साधिकानि षडशीति: षडशीतिर्योजनानि कर्काद्धानौ मकराच्च वृद्धौ भवन्ति / यतस्त्र्यशीत्यधिकेन दिनशतेन दशभागीकृतस्य सर्वाभ्यन्तरमण्डलपरिधेरष्टोत्तरपञ्चशतसमधिकैक-त्रिंशत्सहस्रप्रमित एको दशभागभागो हीयते वर्धते च तदैकैकेन दिनेन का हानिर्वद्धिर्वा ? अत्र त्रैराशिकन्यास:- 183 /