________________ दिवसकरौ सर्वाभ्यन्तरे सन्तौ दीप्तलेश्यौ' भास्वत्तेजसौ तापयतः / एकैकसूर्यस्य भागत्रयप्रमिततापक्षेत्राभिधानात् / / 35|| चत्ता० / तथा चतुरो दशभागान् .. जम्बूद्वीपस्य द्वौ दिवसकरौ सर्वबाह्ये सन्तौ 'मन्दलेश्यौ' मन्दतेजसौ तापयतस्तथाजगत्स्वाभाव्यात् / / 36 / / अथ सर्वाभ्यन्तरे दशभागानां मध्यादेकैकभागस्य योजनकरणं गाथाद्वयेनाह एगारस अडतीसे, वज्जित्तु सयाइ दीवपरिहीए / सेस दसेहि विभत्ते, जं लद्धं तं इमं होइ ||37|| इगतीससहस्साइं, सयाइमट्ठाहिआ तह पंच | चउपन्नसट्ठिभागा, छहि गुणणे अंसछेआणं ||38 / / एगा० / एकादशशतान्यष्टात्रिंशदधिकानि 1138 'जम्बूद्वीपपरिधेः 316227 वर्जयित्वा' जम्बूद्वीपपरिधिमध्यात् 1138 कृष्यन्त इत्यर्थः, शेषे' सर्वाभ्यंतर मंडलपरिधिरुपे 315089 दशभिर्भक्ते यल्लब्धं तद् इदं वक्ष्यमाणं भवति / यतः सर्वाभ्यन्तरं मण्डलंजगतीतोऽशीत्यधिकयोजन-शतेनार्वाग, तत् उभयो : पार्श्वयोरपेक्षया तदक् द्विगुणीकृत्य 360, तच्च वर्गयित्वा दशगणं क्रियते , तदनु करणीकरणे 1138 भवन्तीति / / 37 / / इग० / एकत्रिंशत्सहरत्राण्यष्टाधिकानि पञ्चशतानि योजनानां चतुष्पञ्चाशच्च षष्टिभागा योजनस्य / ते च कथं जाता: ? 'छहि गुणणे अंसछेआणं' ति सर्वाभ्यन्तरमण्डलपरिधिदशमभागयोजनराश्या गमनानन्तरमवस्थितयोरंशच्छेदराश्योर्नवकदशरुपयोः 9. षड्भिर्गुणने जाताः 10, ततो दशस्वपि भागेषु प्रत्येकं योजनान्यंशाश्च भवन्ति 3150810, तद्दशगुणने मण्डलपरिधिर्भवति / एवं द्वितीयादिसर्वमण्डलेषु तत्तन्निजनिजपरिधेरनुसारेण दशभागा: स्वबुद्ध्या विचार्या: / / 38 / / अथोत्कृष्टदिवसे जम्बूद्वीपवर्तिनो मनुष्याः कियटूरतः सूर्यमुदयन्तं पश्यन्ति ? इति गाथाद्वयेनाह एअस्स य रासिस्स य, तिगुणत्ते जो पुणो हवइ रासी / कक्कडचारो रविणो, उदयत्थमणेसु तस्सद्धा / / 39 / / / सीआलीससहस्सा, दो अ सया जोअणाण तेवट्ठा / / इगवीससट्ठिभागा, कक्कडमाइम्मि पिच्छ नरा ||40 / / 130 TA 130