________________ दशभागाः 6324 6 / / 33 / / अथ क्रमेण हीयमानं जघन्यदिवसे यावत्प्रमाणं तापक्षेत्रमवशिष्यते तदाह--- मयरम्मि दुन्नि भागा, दिवसस्स य हुंति तिन्नि रयणीए / एवं नायवाओ, दिणरत्तीवुड्डिहाणीओ ||34 / / मय० / कर्कसंक्रान्तेर्द्वितीयदिनादारभ्य षड्भिर्मासैर्यावन्मकरसंक्रान्त्याद्यदिनं तत्र परिपूर्ण एको भागो न्यूनो जातः, तेन सर्वबाह्यमण्डले सञ्चरतः सूर्यस्य द्वौ भागौ तापक्षेत्रसम्बन्धिनौ भवतः , त्रयो भागा रात्रेोत्यवगन्तव्या / अत्र दिनसत्कभागद्वयेन 63663 योजनानि, रात्रिसत्कभागत्रयेण च 95494 3 दिनरात्रिमीलने 159157 / एवं द्वितीयसूर्यस्यापि / एतदङ्कमीलने सर्वबाह्यमण्डपरिधिर्जातः 318315 / तथा कांद्यदिने 94526 12 उदयास्तान्तरं, मकराद्यदिने च 63663 योजनानि, उभयमीलने 158189 42 , पुनरद्धे कृते यद्भवति तच्च बहिर्गच्छतस्तुलाद्यदिने / मध्ये प्रविशतश्च मेषाद्यदिने दिनवतितममण्डले सूर्यस्योदयाऽस्तान्तरम् 790994 / / द्वयोः सूर्ययोदिनरात्र्यपेक्षयैतद्राशौ चतुर्गुणे कृते तन्मण्डलपरिधिर्जायते , यथा-३१६३७९ 24 , तदा पञ्चदशमुहूर्त दिनम् , पञ्चदशमुहूर्ता रात्रिरपि / साखौं द्वौ भागौ जम्बूहीपचक्रवालदशभागानां तापक्षेत्रं भवति / एवं' इति एवं-पूर्वोक्तप्रकारेण दिनरात्रिवृद्धिहानी ज्ञेये / वृद्धिहानियोजनानि प्रागुक्तानि / अत्र विशेषार्थिना भगवतीपञ्चमशतकवृत्तिरवगाह्या उद्योतान्धकारयन्त्रं चावलोकनीयम् / तत्स्थापना चेयम् !|34 / / अथ तत्रैवाऽनयोः सूर्ययो: समुदितयो: सूत्रे एव तापक्षेत्रभागान् गाथाद्वयेनाह इह छ च्चिअ दसभाए, जंबूदीवस्स दुन्नि दिवसयरा | ताविति दित्तलेसा, अभंतरमंडले संता ||35 / / चत्तारि अ दसभाए, जम्बूदीवस्स दुन्नि दिवसयरा / ताविति मंदलेसा, बाहिरए मंडले संता ||36 / / इह० / 'इह' अस्मिन् जम्बूद्वीपे षडेव दशभागान् जम्बूद्वीपस्य द्वौटा