________________ र प्रतिमण्डलं षड्विंशतिः षडविंशतिर्भागा : सप्तविंशतितमस्य च भागस्यैकः 2 सप्तभाग : 261 / रवेरभ्यन्तरमण्डलपरिधि: 315089, स च 3660 भक्तो लब्धाः षडशीतिः 86, शेषाः 329 , ते षष्टिगुणिताः 19740, तेऽपि च 3660 भक्ता लब्धाः पञ्च / शेषाः 9830 | चन्द्रस्य तु 26 षड्विशत्या गुण्यते 2236, एकसप्तभाग : षडशीतिगुणस्तदा 86. स सप्तधा भक्तो लब्धा : 12, ते 2236 मध्ये क्षिप्ता: 2248, पञ्च भागा : षडविंशतिगणा जाता: 130, ते षष्ट्या हृता लब्धौ द्वौ , तौ 2248 मध्ये क्षिप्तौ जातो 2250 / तेषां तापक्षेत्राकारास्त्वन्त : संकुचिता बहिर्विस्तुला: कलम्बुकापुष्पसंस्थानसंस्थिताः, कोऽर्थः ? मेरुदिशि संकुचिता लवणदिशि विस्तृताः / उक्तं हि-"तेसिं कलंबुआपुप्फसंठिआ हुति तावखित्तपहा / अंतोसंकुइआ बाहि वित्थडा चंदसूराणं / / 1 / / '' ति / / 32 / / अथोत्कृष्टदिवसे जम्बूदीपस्य दशभागकल्पनयैकैकसूर्यस्य तापक्षेत्रे कियन्तो भागाः ? इत्याह दीवस्स य दसभागा, इगपासे हुति तिन्नि दिवसस्स / कक्कस्स य पढमदिणे, भागा पुण दुन्नि रयणीए / / 33 / / दीव० / दीपस्य त्रयः दशभागा एकैकपार्थे 'दिवसस्य' सूर्यतापक्षेत्रस्य कर्कसंक्रान्तिप्रथमदिने भवन्ति / कोऽर्थ: ?' दशधाविभक्ते जम्बूद्वीपचक्रवाले यल्लब्धं तादृशारत्रयो भागा एकस्मिन्पार्श्वे दक्षिणतः उत्तरतो वा / तदा रात्रेः पुनर्दशभक्तौ हौ भागौ भवतः / दिवससत्कभागत्रययोजनानि 94526 12, रात्रिसंबन्धिभागद्य-योजनानि 63017 48 , उभयोर्मीलने 1575443 / एवं द्वितीय सूर्य स्यागि दिनं रात्रिश्च , सवं मीलने 315089 सर्वाभ्यन्तरमण्डलपरिधिर्जातः / अत्र मेरुं प्रति नवयोजनसहरत्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा योजनस्येत्येतत्सर्वोत्कृष्टदशभागत्ररारुपं तापक्षेत्रप्रमाणं भवति 94869 / कथम् ? मन्दरपरिक्षेपस्य किञ्चिन्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहरमानरय 31623 दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणत्वे एतस्य भावादिति / जघन्यदिवसे तु मेरुं प्रति भागद्वयं षड्योजनसहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि षट्