________________ बहुत्वात्क्षेत्रस्य स्तोकत्वाच्च केचित्कोटाकोटिरिति संज्ञान्तरं मन्यन्ते / केचिच्च तारकविमानान्युत्सेधाङ्गलप्रमाणेन मन्यन्ते / किञ्चैतत्सैन्यं सूर्यस्यापि साधारणम् चन्द्रस्येव तत्सैन्यस्य सूर्योऽप्यधिप इति , यदुक्तं जीवाभिगमे ज्योतिष्कोद्देशे''एगमेगस्स णं भंते ! चंदिमसूरिअस्स चंदिमसूरिअस्स केवइओ परिवारो पन्नत्तो ?'' त्ति सूत्रम् / अस्य वृत्त्येकदेशो यथा- 'एकैकस्य भदन्त ! चन्द्रसूर्यस्य चन्द्रसूर्यस्य' अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः स्वामी तथा सूर्यस्यापि तस्यापीन्द्रत्वादिति ख्यापयति / यद्वा समवायाङ्गवृत्तावष्टाशीतिस्थानकेऽप्ययमेवाभिप्रायोऽस्ति तेन चन्द्रसूर्यौ ग्रहेभ्यो भिन्नौ तौ ग्रहाधिपौ ज्ञेयौ / / 31|| नामानि. | जम्बूद्वीपे. | लवणाब्धौ. धातकीखण्डे. | कालोदे. पुष्कराधे. सर्वसंख्या चन्द्रसूर्याः 4 / 12 42 72 | 132 ग्रहा: 176 352 1056 | 3696 6336 11616 नक्षत्राणि 112 / 336 | 1176 / 2016 | 3696 तारककोटि- | 13395 / 2679| 8037 |281295/48222/88407 कोटयः शू०१५ | शू० 16 शू० 16 | शू० 15 शू० 16 | शू० 16 अथ चन्द्रसूर्याणां केन प्रकारेण कदा प्रकाशक्षेत्रं वर्द्धते ? कदा च हीयते ? तदाह तेसिं पविसंताणं, तावक्खित्तं तु वड्डए निअमा / तेणेव कमेण पुणो, परिहायइ निक्खमंताणं // 32 / / तेसिं० / 'तेषां' सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतां तापक्षेत्रं प्रतिदिवसं क्रमेण नियमादायामतो वर्धते / येनैव क्रमेण परिवर्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलादहिर्निष्क्रामतां परिहीयते / तथाहि-सर्वबाह्ये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं चतुर्णामपि दशधा प्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ तापक्षेत्रस्य भवत: / तत: सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छत 3660 प्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्धते / चन्द्रमसस्तु मण्डले मण्डले प्रत्येकं पौर्णमासीसंभवे क्रमे