________________ 144 भागाश्च 12 / तथा 'निसा तस्स विवरीअ' त्ति निशा-रात्रिदिनाद्विपरीता ज्ञेया, कोऽर्थः ? यदा दिनमानमष्टादशमुहूर्तं तदा निशा द्वादशमुहूर्ता , यदा दिनं द्वादशमुहूर्तं तदा निशाष्टादशमुहूर्ता / अत्रापि हानिवृद्धी दिनवज्ज्ञेये / ||29 / / अथ सर्व बाहो मण्डले तथा प्रथम वर्जसर्व मण्डले सूर्यस्योदयाऽस्ताऽन्तरयोजनसंख्यामाह उदयत्थंतर बाहिं, सहसा तेसट्टि छसय तेसट्टा / तह इगससिपरिवारे, रिक्खडवीसाडसीइ गहा ||30|| उद० / 'बाहिं' इति सर्वबाह्यमण्डले सूर्यस्योदयास्तान्तरं त्रिषष्टिसहस्राणि षट्शतानि त्रिषष्ट्यधिकानि योजनानां 63663 / अत्र सूत्रेऽनुक्तापि द्वात्रिंशत्तमगाथावृत्तौ करणेन वक्ष्यमाणा प्रथममण्डलापेक्षया प्रतिदिनमुदयास्तान्तरहानिः साधिकं द्विसप्ततिशतं योजनानां 172 10 140 | पूर्वपश्चिमयोश्च तदर्धं साधिका षडशीतिर्योजनानां ज्ञेया / सर्वत्र दिनार्द्धयोजनैः सूर्य उदयास्तमनयोर्दृश्यत इति गाथापूर्वार्द्धः / 'तह इग' त्ति / तथैकस्य शशिन : परिवारे रुक्षाणि-नक्ष-त्राण्यभिजिदादीन्यष्टाविंशतिः / अष्टाशीतिर्ग्रहा मङ्गलादयः, तन्नामानि चन्द्रप्रज्ञप्त्यादिभ्यो ज्ञेयानि / / 30 / / अथ तारकसंख्यामाह छावट्ठिसहस्साई, सयाई नव पंचहत्तरी अ तहा | इगससिणो परिवारे, तारागणकोडिकोडीणं ||31|| छाव० / एकस्य शशिनः परिवारे तारकाणां संबन्धिनीनां कोटाकोटीनां षट्षष्टिसहस्राणि नवशतानि पञ्चसप्ततिश्च , अङ्कतो यथा 66975 शू० 14 / एतच्च ग्रह 88 नक्षत्र 28 तारकराशित्रिका नरलोकगतद्वात्रिंशदधिकशतचन्द्रैः 132 गुणितमेतद्भवति , यथा ''इक्कारस य सहस्सा, छप्पि अ सोला महग्गहाणं तु 11616 / छच्च सया छन्नउआ, नक्खत्ता तिन्नि अ सहस्सा 3696 / / 1 / / अट्ठासीइ लक्खा, चालीस सहस्स मणुअलोगम्मि / सत्त य सया अणूणा, तारागणकोडिकोडीणं / / 2 / / '' तथा / / समयक्षेत्रवर्तिनि द्वीपे-समुद्रे यावन्तश्चन्द्रास्तदङ्कराशिनैकचन्द्रसैन्याङ्के गुणिते तत्तद्वीपसमुद्रवर्त्तिग्रहादिसंख्या स्वयं ज्ञेया, यंत्रकाद्वाऽवधार्या / अत्र तारकाणां का 126