________________ सेसा गहा सव्वे / / 1 / / / / 27 / / अथ सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये उदयास्तान्तरं 2 दिनमानं चाह मज्झे उदयत्थंतर, चउणवइसहस्सपणसयछवीसा | बायाल सट्ठिभागा, दिणं च (त) अट्ठारसमुहूत्तं ||28|| मज्झे० / सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य कर्काद्यदिने उदयास्तान्तरं चतुर्णवतिसहस्राणि पञ्चशतानि षड्विंशत्यधिकानि योजनानां द्विचत्वारिंशत्-षष्टिभागाश्च 94526 2 / तदा' तस्मिन्दिनेऽष्टादशमुहूर्त दिनमानंभवतीतिशेष : / / 28 / / अथ प्रतिमण्डलं कियद्दिनमानं हीयते ? सर्वबाह्ये मण्डले च गते सूर्ये कियद्दिनमानं सावशेष तिष्ठति ? इत्याह पइमंडल दिणहाणी, दुण्ह मुहत्तेगसट्ठिभागाणं / अंते बार मुहत्तं, दिणं निसा तस्स विवरीआ ||29 / / पइ० / प्रतिमण्डलं द्वयोर्मुहूर्तेकषष्टिभागयोर्दिनस्य हानिर्भवति / अयमर्थःएकस्य मुहूर्तस्यैकषष्टिभागा : क्रियन्ते तत्सम्बन्धिनौ द्वौ भागौ हीयेते / 'अंते' इति सर्वबाह्यमण्डले वर्तमाने सूर्ये द्वादशमुहूर्तं दिनं भवति / अत्र त्रैराशिककरणं ज्ञेयम्-यद्यशीत्यधिकशतदिनैः षण्मुहूर्तानां हानिस्तदैकैकेन दिनेन का हानिः ? इति, राशित्रयन्यासो यथा-१८३-६-१ मध्योऽन्त्यगुण : क्रियते, एकेन गुणितं तदेव भवति जाताः षट्, आदिना च भागाऽप्राप्तौ षडेकषष्टिगुणाः क्रियन्ते जाताः 366, ते त्र्यशीत्यधिकशतेन भज्यन्ते लब्धौ द्वौ मुहूर्तेकषष्टिभागौ . एतौ कर्कात्प्रभृति प्रतिदिनं हीयते, मकरात्प्रभृति प्रतिदिनं च वर्धते / यच्च भगवत्यामेकादशे शत एकादशोद्देशके एकस्य मुहूर्तस्य द्वाविंशत्यधिकं शतं भागाः क्रियन्ते तादृशाश्चत्वारो भागा हानौ वृद्धौ चोक्ताः, अत्रैकषष्टिको द्वौ भागौ , उभयो ऽर्थभेदः / एतावता किश्चिदूनं पलचतुष्कं जातं , यथा पलानि 3 अक्षराणि 56 एकाक्षरस्य भागाः 12, यतः 183 दिनैः षण्मुहूर्ता वर्द्धन्ते प्रतिमुहूर्त पलानि 120, तानि च षड्गुणानि 720 , तानि त्र्यशीत्यधिकेन शतेन भज्यन्ते लब्धानि त्रीणि 3 पलानि, शेषं 171, तानि भागाऽप्राप्तौ षष्ट्यक्षरगुणितानि / 10260, तेऽङ्का : 183 भक्ता लब्धा 56 वर्णाः, शेषा एकस्याक्षरस्य द्वादश / /