________________ यथा—एकोनषष्टिर्मुहूर्ताः सवर्णनार्थं सप्तषष्ट्यधिकशतत्रयगुणा : क्रियन्ते जातं 021653 , उपरितनानामंशानां च क्षेपे जातान्येकविंशतिसहस्राणि नवशतानि 0 षष्ट्यधिकानि 21960 सर्वाभ्यन्तरे नक्षत्रमंडले परिधिः 315089, स च 367 गुणः क्रियते-एकक एककः पञ्चकः षट्कस्त्रिकः सप्तकः षट्कः षट्कस्त्रिकञ्चेति 115637663, अस्य पूर्वेण 21960 भागे लब्धानि योजनानि पञ्चसहस्राणि पञ्चषष्ट्यधिके द्वे च शते एकस्य योजनस्य चैकविंशतिसहस्राणि षष्ट्यधिकानि नवशतानि भागाः क्रियन्ते तत्संबन्धिनोऽष्टादशसहस्राणि त्रिषष्ट्यधिके द्वे च शते भागाः 5265 18263, एतावती प्रतिमुहूर्तं सर्वाभ्यन्तरे मण्डले वर्तमानानामभिजिदादिद्वादशनक्षत्राणां गतिः। एवं तृतीयादिचन्द्रमण्डलानां परिधिप्रमाणं परिभाव्य तत्तन्मण्डलस्थशेषनक्षत्राणामपि प्रतिमुहूर्तंगतिप्रमाण मवसातव्यम, यतः प्रथमे चन्द्रमण्डलेऽभिजित् 1 श्रवण 2 धनिष्ठा 3 शततारका 4 पूर्वभाद्रपद 5 उत्तरभाद्रपद 6 रेवती 7 अश्विनी 8 भरणी 9 पूर्वफाल्गनी 10 उत्तरफाल्गुनी 11 स्वाति 12 नक्षत्राणि भवन्ति 1, तृतीये चन्द्रमण्डले पुनर्वसु 1 मघा 2 द्वे नक्षत्रे 2, षष्ठे चन्द्रमण्डले कृत्तिका 3, सप्तमे चन्द्रमण्डले रोहिणीचित्रे हे 4, अष्टमे चन्द्रमण्डले विशाखा 5, दशमे चन्द्रमण्डले अनुराधा 6, एकादशमे चन्द्रमण्डले ज्येष्ठा 7, पञ्चदशे चन्द्रमण्डले मृगशीर्ष 1 आर्द्रा 2 पुष्य 3 आश्लेषा 4 हस्त 5 मूल 6 पूर्वाषाढा 7 उत्तराषाढा 8 अष्टौ सन्ति, शेषेषु द्वितीयचतुर्थ- पञ्चमनवमद्वादशत्रयोदशचतुर्दशसंख्येषु सप्तसु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति / तत्रान्तिमे नक्षत्रमण्डले परिधिः 318315, एषोऽपि 367 गुणं जातं-एकक एककः षट्कोऽष्टको द्विक एककः षट्कः शून्यं पञ्चकश्चेति 116821605, अस्य पूर्वोक्तेन 21960 भागे लब्धानि योजनानि-५३१९ 16365 7. एषा बाह्ये मण्डले मृगशिरप्रभृतीनामष्टानां नक्षत्राणां प्रतिमुहूर्तं गतिः / ग्रहाणां तारकाणां च मण्डलमानभ्रमिकालमानमुहूर्तगतिमानादिकं वार्तमानिकशास्त्रेषु न दृश्यते / किञ्च चन्द्रः साधिकैाषष्ट्या मुहूत्तैर्मण्डलं पूरयति , सूर्योऽपि षष्ट्या मुहूर्तेर्मण्डलं पूरयति , नक्षत्रं साधिकैरेकोनषष्ट्या मुहूर्तेर्मण्डलं भ्रमणेन पूरयति / ततश्चन्द्रेभ्यः सूर्याः शीघ्रगतयः, तेभ्यो नक्षत्राणि शीघ्रगतीनि / ग्रहास्तु वक्रातीचारमन्दगतितो न नियतगतयस्तेन न तेषां गतिप्ररुपणोक्ता / यतःचंदेहिं सिग्घयरा , सूरा सूरेहिं हुंति णक्खत्ता / अणिअयगइपत्थाणा, हवंति / 21960