________________ सति यल्लब्धं भवति सा सूर्यस्यैकैकमुहूर्तगतिर्भवति तत्र तत्र मण्डले नियमात् / 2 अत्र मण्डलपरिरयराशेः षष्ट्या भागकथनान्मण्डलभ्रमिकालस्य षष्टिमुहूर्तप्रमाणता ज्ञेया / भावना यथा-सूर्यस्य सर्वाभ्यन्तरे मण्डले परिधिः 315089, तस्य मण्डलभ्रमिमुहूर्ताङ्केन षष्ट्या 60 भागे लब्धानि 52517 , एषा सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रतिमुहूर्तं गति / पूर्वपरिधौ सप्तदशप्रक्षेपेऽन्ते षट्कः समायाति, तेन पञ्चत्रिंशत्षष्टिभागानां परिधेरधिकतायाश्च संमीलने एकं योजनं भवति, तत्प्रक्षेपे सप्तकः स्याद्, एवमन्यत्रापि योज्यम् , ततो द्वितीयमण्डले परिधिः 315107, तस्य षष्ट्या भागे लब्धानि योजनानि 525147, एषा द्वितीयमण्डले सूर्यस्य प्रतिमुहर्त गतिः / एवं सर्वाभ्यन्तराद्धहिर्निष्क्रामतः सूर्यस्य मण्डले मण्डले पूर्वपूर्वानन्तरमुहूर्तगतिप्रमाणापेक्षया किञ्चिदूना अष्टादश षष्टिभागा :प्रवर्धमानास्तावद्वक्तव्या यावत्सर्वबाह्यमण्डलम् / तत्र परिधिः 318315, तस्य षष्ट्या भागे लब्धानि योजनानि 5305 , एतावती सर्वबाह्ये मण्डले सूर्यस्य प्रतिमहतं गतिः / यथा यथा बहिर्निष्क्रामतोश्चन्द्रसूर्ययोगतिर्वर्धते तथा तथा मध्ये प्रविशतोस्तेनैव प्रकारेण हीयत इत्यवसेयम् / / 25 / / अथ सर्वनक्षत्राणां गाथाद्वयेन मुहूर्तगतिकरणमाह एगूणसट्ठिरुवा, सत्तहिं अहिगा उ तिन्नि अंससया / तिन्नेव य सत्तट्ठा, छेओ पुण तेसि बोधब्बो ||26 / / एएण य भइअब्दो, मंडलरासी हविज्ज जं लद्धं / सा होइ मुहत्तगई, रिक्खाणं मंडले नियमा ||27|| एगूणस० / नक्षत्राणां मण्डलभ्रमिकाल: एकोनषष्टिरुपाणि' पूर्णा एकोनषष्टिमुहूर्ता इत्यर्थः, सप्ताधिकानि पुनस्त्रीण्यंशशतानि एकस्य मुहूर्तस्य सप्तषष्ट्यधिकशतत्रयभागरुपाणि 59 307, इयता कालेन नक्षत्रं स्वं स्वं मण्डलं भ्रम्या पूरयति / अंशस्वरुपं सूत्रेणैवाह-छेदः पुन: 'तेषां' मुहूर्तानां सप्तषष्ट्यधिकानि त्रीण्येव शतानि बोद्धव्यः / / 26 / / एए० / एतेन च' अनन्तरोक्तराशिनैकोन-षष्टिमुहूर्तादिरुपेण नक्षत्रमण्डलराशिभक्तव्यः, तत्करणे यल्लब्धं सा भवति प्रतिमुहूर्तं गतिर्नक्षत्राणां मण्डले मण्डले नियमात् / भावना