________________ द्वयभागरुपा बोद्धव्याः 62 23, एतावत्कालप्रमाणं चन्द्रस्यैकैकमण्डले परिभ्रमतो लगति / अत्रांशस्वरुपं सूत्रेणैवाह-'छेओ' त्ति छेदो-विभजनाङ्कः पुनः "तेषां' 9 मुहूर्तानामेकविंशत्यधिकशतद्वयरुपो बोद्धव्यः / / 23 / / एएण य भइअव्वो, मंडलरासी हविज्ज जं लद्धं / सा सोममुहत्तगई, तहिं तहिं मंडले निअमा ||24|| एएण० / 'एतेन च' अनन्तरोक्तराशिना द्वाषष्टिमुहूर्तादिरुपेण मण्डलपरिधि- राशिभक्तव्यः, भक्ते सति भवेद्यल्लब्धं सा सोमस्यैकैकमहर्ते गतिर्भवति तस्मिन् तस्मिन् मण्डले नियमात् / भावना यथा-सवर्णनार्थं द्वाषष्टिमुहूर्ताएकविंशत्यधिकशतद्वयगुणाः क्रियन्ते, जातं 13702, उपरितनांशास्रयोविंशतिः क्षिप्यन्ते जातानि त्रयोदशसहस्राणि पञ्चविंशत्यधिकानि सप्तशतानि 13725, चन्द्रस्य सर्वाभ्यन्तरमण्डलपरिधिर्योजनानि 315089 रुपः, सोऽपि 221 गुणः क्रियते जातः षट्को नवकः षट्कस्त्रिकञ्चतुष्कः षट्कः षट्को नवकञ्चेति 69634669, अस्य राशेः पूर्वोक्तेन त्रयोदशसहस्रपञ्चविंशत्यधिकसप्तशतप्रमिताङ्केन 13725 भागहारे लब्धानि योजनानि 5073 अंशाः 800 एषा चन्द्रस्याऽभ्यन्तरमण्डले मुहूर्तगतिः / द्वितीये चन्द्रमण्डले परिधिर्योजनानि 315319, सोऽपि 221 गुणितो जातः षट्को नवकः षट्कोऽष्टकः पञ्चकश्चतुष्को नवको नवकश्चेति 69685499, अस्य राशेः पूर्वोक्तेन 13725 राशिना भागे लब्धानि योजनानि 5077 3676 एषा द्वितीये मण्डले चन्द्रस्यैकैकमुहूर्ते गतिः / एवं मण्डले मण्डले परिधिवृद्ध्या पूर्वपूर्वापेक्षया मुहूर्तगतिप्रमाणं प्रतिमण्डलं किञ्चिदूनपादोन-चतुर्योजनवृद्ध्या तावन्नेयं यावत्सर्वबाह्य मण्डलम् / तत्र च परिधियोजनानि 318315, अयमपि 221 गुणितो जातः सप्तकः शून्यं त्रिकश्चतुष्कः सप्तकः षट्क एककः पञ्चकश्चेति 70347615, अस्य राशेः 13725 भागे लब्धानि योजनानि 5125 6990, एतावती सर्वबाह्ये मण्डले चन्द्रस्य प्रतिमुहूर्त गतिः / / 24 / / अथ सूर्यस्य मुहूर्तगतिकरणमाह मंडलपरिरयरासी, सट्ठी भइअम्मि होइ जं लद्धं / सा सूरमुहत्तगई, तहिं तहिं मंडले निअमा ||25 / / मंडलपरिर० / सूर्यस्य मण्डलपरिधिराशिः षष्ट्या 60 भज्यते, भक्ते 7744 13725'