________________ 60 द्वापञ्चाशत् / / 20 / / अथ सूर्यस्य सर्वमण्डलेषु प्रतिमुहूर्तं गतिप्रमाणमाह मज्झि दुवन्निगवन्ना, सया य चउवन्नसंजआ बाहिं / सूरस्स व अट्ठारस, सट्ठीभागाणमिह वुड्ढी / / 21 / / मज्झि० / सर्वमध्यमण्डले वर्तमानस्य जम्बूद्वीपसत्कसूर्यस्य तु द्विपञ्चाशच्छतान्येकपञ्चाशदधिकानि योजनानामिति योगः, एकैकस्मिन्मुहूर्ते गतिरेतावती भवति 5251 29 , ये चोपरितनांशाः सूत्रे स्तोकत्वान्नोक्तास्ते चन्द्रसूर्ययोर्मुहर्तवर्तनावसरे चिन्तयिष्यन्ते / या च सर्वमध्यमण्डले मुहूर्तगतिः सूर्यस्य सैव चतुष्पञ्चाश-द्योजनसंयुता कृता सती सर्वबाह्यमण्डले प्रतिमुहूर्त गतिर्जायते, यथा-५३०५ 10 / अत्र प्रतिमण्डलं किञ्चिदूनानामष्टादशषष्टिभागानां 18 वृद्धिः, यतोऽष्टादशानां त्र्यशीत्यधिकशतगुणने 3294 जायन्ते, तेषां षष्ट्या भागहारे लब्धानि चतुष्पञ्चाशद्योजनानीति / / 21 / / अथाधिकारान्नक्षत्राणां प्रतिमुहूर्तं गतिप्रमाणमाह पणसहसदुसयसाहिअ, पण्णट्ठी जोअणाण मज्झि गई / चउपन्नहिआ सा बहिमंडलए होइ रिक्खाणं ||22 / / पणस० / 'मज्झित्ति सर्वाभ्यन्तरे मण्डले वर्तमानानां नक्षत्राणामेकैकमुहूर्ते गतिः पञ्चसहस्राणि द्वे शते पञ्चषष्टिश्च साधिका योजनानां 5265 5 / सा च सर्वाभ्यन्तरमण्डलगतिश्चतुष्पञ्चाशद्योजनाधिका क्रियते तदा सर्वबाह्ये मण्डले वर्तमानानां नक्षत्राणां प्रतिमुहूर्तं गतिः यथा-५३१९ 16365 / अत्र प्रतिमण्डलवृद्धिः सम्यग् न ज्ञायते , यतो मण्डलानामन्तरं सर्वत्र तुल्यं नास्ति 1 / 22 / / अथ मण्डलभ्रमिमुहूर्तज्ञानपूर्वकं पूर्वोक्तमपि चन्द्रादिमुहूर्तगतिपरिमाणं करणगाथाभिर्विवक्षुः प्रथमं चन्द्रस्याह बावट्टि पुण्णरुवा, तेवीस अंसगा य बोधव्वा / दो चेव इक्कवीसा, छेओ पुण तेसिं बोधव्यो / / 23 / / बावट्ठि० / चन्द्रस्यैकैकमण्डले भ्रमिकालः 'द्वाषष्टिः पूर्णरुपाणि' पूर्णा द्वाषष्टिमहर्ता इत्यर्थः, त्रयोविंशतिरंशाश्चैकस्य मुहर्तस्यैकविंशत्यधिकशत 121 -