________________ शेषाः पञ्चत्रिंशद्भागाः 5 35 एतच्च त्र्यशीत्यधिकशतेन गुण्यते जातं योजनानां विंशत्युत्तरं सहस्रम् 1020, तच्च सर्वाभ्यन्तरमण्डलविष्कम्भे 99640 रुपे मील्यते तदा सर्वबाह्ये मण्डले द्वयोः सूर्ययोमिथोऽन्तरं 100660 भवति / तत्परिधियोजनानि 318315 / चन्द्रयोरिव सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले सूर्ययोरप्यबाधाप्रमाणमवसेयम् / नवरं चन्द्रस्य सूर्यापेक्षया षोडशभिरेकषष्टिभागैयूँनमन्तरम् , यत एकोऽपि चन्द्रोऽष्टावेकषष्टिभागान् सूर्यादभ्यन्तरमाक्रामति, एवमपरोऽपि तत्समश्रेणिस्थः, ततः षोडशभिः भागैयूँनता / / 17 / / अथ सर्वाभ्यन्तरपरिधिं सर्वबाह्यपरिधिं च वृत्तावुक्तमपि सूत्रमध्ये गाथाद्वयेनाह तिन्नेव सयसहस्सा, पन्नरस हवंति जोअणसहस्सा / एगुणनउआ परिही, अभंतरमंडले तेसिं ||18|| लक्खतिगं अट्ठारससहसा, तिन्नि सय पंचदसअहिआ / परिहीइ जोअणाई, बाहिरए मंडले हुंति / / 19 / / तिन्नेव० / त्रीणि लक्षाणि पञ्चदशसहस्राणि एकोननवत्यधिकानि 315089 योजनानां सर्वाभ्यन्तरे मण्डले परिधि: 'तयो :' चन्द्रयो: सूर्ययोश्च / / 18 / / लक्ख० / लक्षत्रिकमष्टादशसहस्राणि पश्चदशाधिकानि त्रीणि शतानि योजनानां 318315 सर्वबाह्ये मण्डले परिधिरिति / / 19 / / अथ चन्द्रस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह साहिअपणसहसतिहुत्तराई, ससिणो मुहुत्त गइ मज्झे / बावन्नहिआ सा बहि, रइमंडल पउणचउवुड्डी ||20|| साहि० / 'मज्झे' इति सर्वाभ्यन्तरे मण्डले वर्तमानस्य जम्बूद्वीपे एकैकस्मिन्मुहूर्ते पञ्चसहस्राणि त्रिसप्तत्यधिकानि साधिकानि योजनानां गतिर्भवति, अङ्कतो यथा-५०७३ 046 / 'सैव' सर्वाभ्यन्तरमण्डलगतिढिपञ्चाशद्योजनाधिका कृता सती सर्वबहिर्मण्डले चन्द्रस्यैकैकमुहूर्तगतिर्जायते, अत्र कियद्भागानां न्यूनत्वं जातम् , अङ्कतो यथा- 5125 6990 / प्रतिमण्डलं च किश्चिदूनपादोनचतुर्योजनवृद्धिः क्रियते एतावता पूर्ण योजनत्रिकं पञ्चपञ्चाशदधिकाः षण्णवतिशतभागाश्चेत्यर्थः 3 / एतच्चतुर्दशगुणितं . foto