________________ 9673344040, एतस्य करणीकरणे आगतं 98353, शेषाङ्काः 31431 2 स्थितास्तैर्न किश्चित्प्रयोजनम् / तत एकषष्टिः सप्तगुणिता जाता: 427 तैः०० कृत्वा लब्धानां भागहारे योजनानि 230 143 / अयं परिरयो यदि चन्द्रस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा यथोत्तरं द्वितीयादिमण्डलपरिरयमागच्छति / विष्कम्भवृद्धयानयनोपायश्चायम्-चन्द्रमण्डलान्तरं पञ्चत्रिंशद्योजनानित्रिंशदेकषष्टि भागाश्चत्वारश्च साप्तिका भागा इति , अत्र द्वयोः पार्श्वयोरपेक्षया योजनानां द्विगुणने सप्ततियोजनानि 70, तथा त्रिंशद्भागानां द्विगुणत्वे षष्टिरेकषष्टिभागाः, तथा साप्तिकाश्चत्वारो भागास्ते द्विगुणिता अष्टौ , तैः सप्तभिरे(क ए)कषष्टिभागाः सर्वे एकषष्टिस्तैरेकं योजनम् , तच्च योजनराशिमध्ये क्षिप्तमेकसप्ततिः, साप्तिकश्चैकभागः स्थितः। चन्द्रविमानं तु षट्पञ्चाशद्भागमितम् , तद्विगुणत्वे द्वादशोत्तरं शतं 112, एकषष्ट्या भागैरेकं योजनं शेषा एकपञ्चाशद्भागाः तद्योजनमेकसप्ततौ क्षिप्तं जातं पूर्वोक्तमानम् 72 41 / एतच्चतुर्दशगुणितं जातमेकोनविंशत्युत्तरं सहस्रं योजनानां 1019 शेषा भागाः४५, तच्च यदा चन्द्रप्रथमभण्डलविष्कम्भे 99640 योजनरुपे क्षिप्यन्ते तदा सर्वबाह्ये मण्डले द्वयोश्चन्द्रयोर्मियोऽन्तरं योजनानि 100659 / तत्परिधियोजनानि 318315 किश्चिदुनानि / / तथा सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोमिथोऽन्तरं योजनानि 99640, तत्परिधियोजनानि 315089 किश्चिदधिकानि / द्वितीयादिसूर्यमण्डलेषु प्रतिमण्डले विष्कम्भवृद्धिर्योजनानि 5 35 / तत्परिधियोजनानि 17, यतः पञ्च एकषष्ट्या गुणिताः पञ्चत्रिंशत्सहिताश्च 340, ते वर्गिता दशगुणिताश्च जाताः 1156000, एतदङ्कानां करणीकरणे 1075 आगताः शेषा : 375 स्थिताः, आगतानां 61 भागहरणे 17 / अयं परिरयो यदि सूर्यस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा द्वितीयादिसूर्यमण्डल-परिधिप्रमाणमागच्छति / अत्रापि विष्कम्भवृद्धयानयनोपायो यथा-सूर्यस्य मण्डलान्तरं योजने दे, तद्विगुणत्वे चत्वारि, सूर्यविमानं त्वष्टचत्वारिंशद्भागमितम् , तद्विगुणं )| षण्णवतिर्भागाः, तेषामेकषष्ट्या भागैरेकं योजनं तच्चतर्षु क्षिप्तं जातं योजनपञ्चकं 1. 'द्विगुणिते' इत्यपि /