________________ मण्डलं न निष्पद्यतेपरिपूर्णवृत्ताकारतया मण्डलनिष्पत्तिर्निश्चयतो दिनकरयोर्न भवतीत्यर्थ: / चन्द्रयोरप्येवमेव निश्चयतो मण्डलाभावस्तथैव वक्रतया व परिभ्रमणात् / / 15 / / अथ चन्द्रसूर्ययोर्मण्डलस्थानादूर्ध्वमधश्च संक्रमणनिषेधमाह रयणिअरदिणयराणं, उड्डे अ अहे अ संकमो नत्थि / मंडलसंकमणं पुण, सब्भतरबाहिरं तिरिअं / / 16 / / रयणिअर० / 'रजनिकरदिनकरयो : ' चन्द्रादित्ययो समभूतलादशीत्यधि-काष्टाशतयोजनेभ्यश्चन्द्रस्य परिपूर्णाष्टशतयोजनेभ्यः सूर्यस्य च 'ऊर्चे' ऊर्ध्वदेशे 'संक्रमः सञ्चरणम् / तथा पूर्वोक्तयोजनेभ्योऽधश्च संक्रमो नास्ति, तथाजगत्स्वाभाव्यात् / तिर्यक्पुनर्मण्डलेषु संक्रमणं भवेत् , किंविशिष्टमित्याह-'साभ्यन्तरबाा' सहाभ्यन्तरं बाह्यं यस्य येन वा तत्साभ्यन्तरबाह्यम् , किमुक्तं भवति-सर्वाभ्यन्त-रान्मण्डलात्परतस्तावन्मण्डलेषु संक्रमणं यावत्सर्वबाह्यमण्डलम्, सर्वबाह्याच्च मण्डलादक मण्डलेषु तावत्संक्रमणं यावत्सर्वाभ्यन्तरमिति / इदं विमानापेक्षं न तु तन्मध्यवर्तिसुरापेक्षम् , ते तु नन्दीश्वरद्वीपभगवत्समवसरणादिष्वायान्ति / / 16 / / अथ चन्द्रयोः सूर्ययोश्च सर्वमण्डलस्थयोमिथो विष्कम्भान्तरमाह ससिससि रविरवि अंतर, मज्झे इगलक्ख तिसयसट्टणो / साहिअदुसयरिपण चय, बहि लक्खो छसयसहिओ।।१७।। ससि० / 'मध्ये' इति सर्वाभ्यन्तरे मण्डले वर्तमानयोः शशिनो:समश्रेण्या परस्परमन्तरं जम्बूद्वीपेऽशीत्यधिके शते योजनानां मध्ये प्रवेशात्षष्ट्यधिक शतत्रययोजनोनं लक्षम् , अङ्कतो यथा-९९६४० / तत्परिधिः योजनानि 315089 किञ्चिदधिकानि यत: 99640 अङ्कानां वर्गकरणे दशगुणे च 99281296000 एतदङ्कानां करणीकरणे सर्वाभ्यन्तरमण्डलस्य परिधिः 315089 भवति / ततो द्वितीयादिचन्द्रमण्डलेषु विष्कम्भस्य 'चय' इति वृद्धिर्योजनानां द्वासप्ततिरेकपञ्चाशदेकषष्टिभागास्तत्साप्तिकश्चैकभागोऽपि, यथायोजनानि 72 51 1, एतद्राशेः परिधिर्योजनानि 230 143, यतो द्विसप्ततियोजनान्येकषष्ट्या गुण्यन्ते 4392, एकपञ्चाशति क्षिप्ते जातं 4443, 7 तच्च सप्तगुणितमेकेन युतं 31102, तच्च वर्गितं दशगुणितं च यथा- 20 1 7